This page has not been fully proofread.

दशकम् - [५]
 
हिरण्यगर्भत्पित्तिवर्णनम् ।
 
ति दर्शयन् भगवन्तं प्रार्थयते--तस्येति । तस्य तादृशस्य विराजः अन्तरात्मव
पुषे अन्तर्यामिरूपाय बिमलात्मने शुद्धसत्त्वमयमूर्तये ते तुभ्यं नमोऽस्तु । हे वाता-
लयाधिप ! एवं क्रमादुपासनासामर्थ्याय मम रोगान् निरुन्धि नाशयेत्यर्थः ॥१०॥
 
दर्शयति
 
इति विराइदेहस्य जगदात्मत्ववर्णनं
पष्टं दशकम् ।
 
एवं त्रिगुणात्मके भगबद्रूपे स्थिरमनसो द्विगुणात्मकहिरण्यगर्भाख्यभगवद्रूपं
 
एवं देव ! चतुर्दशात्मक जगदूपेण जातः पुन-
स्तस्यो खल सत्यलोकनिलये जातोऽसि धाता स्वयम् ।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
 
योऽभूत् स्फीतरजोविकार विकसनासिसृक्षारसः ॥ १ ॥
एवमिति । अत्रायमभिप्रायः – स्थूलसूक्ष्मक्रमेण हि बुद्धयोऽर्थमवगाहन्त
इति प्रथमं त्रिगुणात्मके भगवद्रूपे मनः प्रणिधाय तत्र स्थिरं सद् द्विगुणात्मके,
ततः परं सत्त्वैकगुणे, ततश्च निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य निरतिशयानन्दलाभेन
कृतकृत्यतामेतीति । हे देव! एवं चतुर्दशात्मकजगद्रूपेण जातस्त्वं स्वयं खलु
त्वमेव पुनरनन्तरं तस्य जगत ऊर्ध्वम् उपरि सत्यलोकनिलये धाता जातोऽसि ।
यं त्वां हिरण्यगर्भ शंसन्ति, शास्त्रविद इति शेषः । यतोऽखिलत्रैलोक्यस्य बिराजो
जीवः पञ्चप्राणमनोबुद्धिदशेन्द्रियात्म कलिङ्गशरीरसमष्ट्यभिमानी, तदात्मकं तत्स्व -
रूपम् । यः स्फीतैः प्रवृद्धैः रजोविकारैः रजोगुणकार्यैः अत्र भेदबुद्धिरुपकारबुद्धी
रागादयश्च रजःकार्याणि तैर्विकसन् आविर्भवन् नाना सुरनरतिर्यगादिशरीराणि
तद्भोग्यानि च स्रष्टुमिच्छा सिसृक्षा तस्यां रस आग्रहो यस्य स विकसन्नानासिसु-
क्षारसः । अत्र ब्रह्ममूर्तिर्विश्वकर्मशास्त्रे दर्शिता --
 
"हंसारूढा चतुर्वका ततकाञ्चनसन्निभा ।
शुक्लवस्त्रा लम्बकर्णकूर्चसौम्या चतुर्भुजा ॥
तुन्दिला सोत्तरीयोपवीता योगपदासना ।
जटामकुटशोभाढ्या पिङ्गलाक्षी वरप्रदा ॥