This page has been fully proofread once and needs a second look.

दशकम् - [५]
 
हिरण्यगर्भत्पित्तिवर्णनम् ।
 
ति दर्शयन् भगवन्तं प्रार्थयते--तस्येति । तस्य तादृशस्य विराजः अन्तरात्मव
-
पुषे अन्तर्यामिरूपाय बिविमलात्मने शुद्धसत्त्वमयमूर्तये ते तुभ्यं नमोऽस्तु । हे वाता-

लयाधिप ! एवं क्रमादुपासनासामर्थ्याय मम रोगान् निरुन्धि नाशयेत्यर्थः ॥१०॥
 
दर्शयति
 

 
इति विराड्देहस्य जगदात्मत्ववर्णनं

ष्टं दशकम् ।
 

 
एवं त्रिगुणात्मके भगद्रूपे स्थिरमनसो द्विगुणात्मकहिरण्यगर्भाख्यभगवद्रूपं
 

दर्शयति--
 
एवं देव ! चतुर्दशात्मक जगदूद्रूपेण जातः पुन-

स्तस्योर्ध्वंलु सत्यलोकनिलये जातोऽसि धाता स्वयम् ।

यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
 

योऽभूत् स्फीतरजोविकार विकसविकसन्नानासिसृक्षारसः ॥ १ ॥

 
एवमिति । अत्रायमभिप्रायः--स्थूलसूक्ष्मक्रमेण हि बुद्धयोऽर्थमवगाहन्त

इति प्रथमं त्रिगुणात्मके भगवद्रूपे मनः प्रणिधाय तत्र स्थिरं सद् द्विगुणात्मके,

ततः परं सत्त्वैकगुणे, ततश्च निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य निरतिशयानन्दलाभेन

कृतकृत्यतामेतीति । हे देव! एवं चतुर्दशात्मकजगद्रूपेण जातस्त्वं स्वयं खलु

त्वमेव पुनरनन्तरं तस्य जगत ऊर्ध्वम् उपरि सत्यलोकनिलये धाता जातोऽसि ।

यं त्वां हिरण्यगर्भ शंसन्ति, शास्त्रविद इति शेषः । यतोऽखिलत्रैलोक्यस्य बिराजो

जीवः पञ्चप्राणमनोबुद्धिदशेन्द्रियात्म कलिङ्गशरीरसमष्ट्यभिमानी, तदात्मकं तत्स्व -

रूपम् । यः स्फीतैः प्रवृद्धैः रजोविकारैः रजोगुणकार्यैः अत्र भेदबुद्धिरुपकारबुद्धी

रागादयश्च रजःकार्याणि तैर्विकसन् आविर्भवन् नाना सुरनरतिर्यगादिशरीराणि

तद्भोग्यानि च स्रष्टुमिच्छा सिसृक्षा तस्यां रस आग्रहो यस्य स विकसन्नानासिसु-
सृ-
क्षारसः । अत्र ब्रह्ममूर्तिर्विश्वकर्मशास्त्रे दर्शिता --
 
--
 
"हंसारूढा चतुर्वका तक्त्रा तप्तकाञ्चनसन्निभा ।

शुक्लवस्त्रा लम्बकर्णकूर्चसौम्या चतुर्भुजा ॥

तुन्दिला सोत्तरीयोपवीता योगपदासना ।

जटामकुटशोभाढ्या पिङ्गलाक्षी वरप्रदा ॥