2023-02-16 08:52:04 by ambuda-bot
This page has not been fully proofread.
बिराड्देहस्य जगदात्मत्ववर्णनम् ।
माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश ! शकुन्तपङ्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमाग्नि-
देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६ ॥
दशकम् - ६]
मायेति । तव विलासहसितं लीलास्मितं माया । समीरो वायुः श्वसितं श्वा-
सः । तव जिह्वा जलम् । हे ईश ! ईश्वर ! तव वचनं शकुन्तपङ्क्तिः पक्षिसमूहः । सि-
द्धादयः सिद्धविद्याधरचारणादयः तव स्वरगणाः स्वराणां श्रुतिभेदभिन्ना गणाः षड्-
जादयः । मुखरन्ध्रमास्यम् अग्निः । देवा इन्द्रादयस्तव भुजाः । धर्मदेवः देवतामूर्ति-
धर्मस्तव स्तनयुगम् ॥ ६ ॥
पृष्ठं त्वधर्म इह देव! मनः सुधांशु-
रव्यक्तमेव हृदयाम्बुजमम्बुजाक्ष ! ।
कुक्षि: समुद्रनिवहा वसनं तु सन्ध्ये
शेफ: प्रजापतिरसौ दृषणौ च मित्रः ॥ ७ ॥
पृष्ठमिति । पृष्ठं त्वधर्मः । हे देव! द्योतनशील! इह अस्मिन् रूपे सुधांशुश्चन्द्रः
तब मनः । तव हृदयाम्बुजमव्यक्तमेव सत्त्वादिगुणत्रयसाम्यं प्रधानमेव । हे अम्बु
जाक्ष ! समुद्रनिवहाः समुद्रसमूहास्तव कुक्षिः उदरम् । प्रातःसायंसन्ध्ये तु तव वसनं
वासोयुगलम् । प्रजापतिर्ब्रह्मा तव शेफ: मेम् । असौ मित्रः तव वृषणौ ॥ ७ ॥
श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जवाहु-
चारूरुयुग्मचरणं करुणाम्बुधे ! ते ॥ ८ ॥
श्रोणीति । तव श्रोणीस्थलं मृगगणाः । ते तव पदयोर्नखाः हस्युष्ट्रसैन्धव-
मुखाः। सैन्धवोऽश्वः । तव गमनं तु कालः । हे करुणाम्बुधे! एवंविधमूर्युपासनायां
मयि तव कृपया भाव्यमिति भावः । वदनाब्जं बाहुश्च चारु सुन्दरमूरुयुग्मं च
चरणौ च तेषां द्वन्द्वः । प्राण्यङ्गत्वादेकवचनम् । ते तव बदनाब्जादिकं विप्रादीनां