This page has not been fully proofread.

नारायणीये
 
[ स्कन्धः - २
 
ग्रीवेति । तव ग्रीवा कण्ठदेशः महः महर्लोकः जनो जनलोकः तप-
स्तपोलोकः फालं ललाटं समस्तमयस्य विश्वात्मनः सत्यं सत्यलोकः हे जगन्म-
यतनो! विश्वमूर्ते! एवम् उक्तप्रकारेणैव जगदाश्रितैरन्यैर्वक्ष्यमाणैश्च निबद्धं
सम्पूर्णावयवत्वेन सम्पादितं वपुर्यस्य स निबद्धवपुः । हे भगवन् ! तस्मै ते
नमोऽस्तु ॥ ३ ॥
 
४४
 
जगदाश्रितैरन्यैरपि निबद्ववपुत्र इत्युक्तम् । तदेव प्रपञ्चयति--
त्वमरन्ध्रपदमीश्वर ! विश्वकन्द-
च्छन्दांसि केशंत्र! घनास्तव केशपाशाः ।
उल्लासिविलियुगलं इहिणस्य गेहूं
 
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ ४ ॥
 
त्वद्विति। हे ईश्वर ! विश्वकन्द ! जगत्कारणभूत ! तव ब्रह्मरन्धं द्वादशान्तं,
तदेव पदं स्थानं छन्दांसि वेड़ा एव । घना मेघः तव केशपाशाः । उल्लासिचिल्लि-
युगलं शोभनशीलं भ्रूयुगं द्रुहिणस्य ब्रह्मणो गेहं गृहम् । पक्ष्माणि ऊर्ध्वाधस्तनाक्षि-
रोमाणि क्रमाद् रात्रिदिवसौ । नेत्रे नयनेन्द्रिययुगं सविता सूर्यः । चकारोऽनुक्तसमु-
`च्चयार्थः । अतः साङ्ख्ययोगौ मकरकुण्डले, आतपत्रं विकुण्ठनिलय इत्याद्यन्वे-
ष्टव्यम् ॥ ४ ॥
 
निश्शेषविश्वरचना च कटाक्षमोक्षः
 
कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
 
तारागणाच रहनाः शमनश्र दंष्ट्रा ॥ ५ ॥
 
निश्शेषेति । तव निश्शेषविश्वरचना चतुर्दशलोक निर्माणं कटाक्षमोक्षः ।
तव कर्णौ दिशः । अश्विनौ तव नासिके द्वे । लोभस्तवाधरोष्ठः । त्रपा तवोत्त-
रोष्ठ: । हे भगवन् ! तारागणा नक्षत्रपक्तयस्तव रदनाः दन्ताः । शमनो यम-
स्तव दंष्ट्रा ॥ ५ ॥
 
१. 'तैं भगवन् ए' ख. पाठ:
 
२. 'दल घ' क. पाठ:
 
३. 'घा उ' क. पाठः,