This page has been fully proofread once and needs a second look.

नारायणीये
 
[ स्कन्धः - २
 
ग्रीवेति । तव ग्रीवा कण्ठदेशः महः महर्लोकः जनो जनलोकः तप-

स्तपोलोकः फालं ललाटं समस्तमयस्य विश्वात्मनः सत्यं सत्यलोकः हे जगन्म-

यतनो! विश्वमूर्ते[^१]! एवम् उक्तप्रकारेणैव जगदाश्रितैरन्यैर्वक्ष्यमाणैश्च निबद्धं

सम्पूर्णावयवत्वेन सम्पादितं वपुर्यस्य स निबद्धवपुः । हे भगवन् ! तस्मै ते

नमोऽस्तु ॥ ३ ॥
 
४४
 

 
जगदाश्रितैरन्यैरपि निबद्व<flag>द्धवपुत्रष</flag> इत्युक्तम् । तदेव प्रपञ्चयति--
त्व

 
त्वद्ब्रह्
मरन्ध्रपदमीश्वर ! विश्वकन्द-

च्छन्दांसि केशंत्रश[^२]व! घनास्तव केशपाशाः ।
उल्लासिविलियुगलं इहिणस्य गेहूं
 
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ ४ ॥
 
त्वद्विति। हे ईश्वर ! विश्वकन्द ! जगत्कारणभूत ! तव ब्रह्मरन्धं द्वादशान्तं,
तदेव पदं स्थानं छन्दांसि वेड़ा एव । घना मेघः तव केशपाशाः ।

उल्लासिचिल्लि-
युगलं <flag>द्रु</flag>हिणस्य गेहूं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ ४ ॥
 
त्वद्विति। हे ईश्वर ! विश्वकन्द ! जगत्कारणभूत ! तव ब्रह्मरन्ध्रं द्वादशान्तं,
तदेव पदं स्थानं छन्दांसि वेदा एव । घना मेघाः[^३] तव केशपाशाः । उल्लासिचिल्लि-
युगलं शोभनशीलं भ्रूयुगं द्रुहिणस्य ब्रह्मणो गेहं गृहम् । पक्ष्माणि ऊर्ध्वाधस्तनाक्षि-

रोमाणि क्रमाद् रात्रिदिवसौ । नेत्रे नयनेन्द्रिययुगं सविता सूर्यः । चकारोऽनुक्तसमु-
`

च्चयार्थः । अतः साङ्ख्ययोगौ मकरकुण्डले, आतपत्रं विकुण्ठनिलय इत्याद्यन्वे-

ष्टव्यम् ॥ ४ ॥
 

 
निश्शेषविश्वरचना च कटाक्षमोक्षः
 

कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।

लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
 

तारागणाच रहश्च रदनाः शमनश् दंष्ट्रा ॥ ५ ॥
 

 
निश्शेषेति । तव निश्शेषविश्वरचना चतुर्दशलोक निर्माणं कटाक्षमोक्षः ।

तव कर्णौ दिशः । अश्विनौ तव नासिके द्वे । लोभस्तवाधरोष्ठः । त्रपा तवोत्त-

रोष्ठ: । हे भगवन् ! तारागणा नक्षत्रपङ्क्तयस्तव रदनाः दन्ताः । शमनो यम-

स्तव दंष्ट्रा ॥ ५ ॥
 

 
[^
]. <flag>'तैंर्तै</flag> भगवन् ए' ख. पाठ:
 
ठः
[^
]. 'ल घ' क. पाठ:
 
ठः
[^
]. 'घा उ' क. पाठः,