This page has not been fully proofread.

दशकम् - ६]
 
त्रिराड्देहस्य जगदात्मत्ववर्णनम् ।
 
४३
 
तथाविधस्त्वं निर्भातोऽसि । हे मरुत्पुराधिप ! स त्वं सर्वामयात् सर्वस्माद् बाह्या-
दाभ्यन्तराच्च रोगाद् मां त्रायख रक्षतादित्यर्थः ॥ १० ॥
 
इति विराट्पुरुषोत्पत्तिप्रकारवर्णनं
पञ्चमं दशकम् ।
 
एवं भगवतो बिराडाह्वयस्य स्थूलशरीरस्योत्पत्ति प्रदर्य सम्प्रत्युपासनार्थं
तदवयवभेदकल्पनाप्रकारमाह-
एवं चतुर्दशजगन्मयतां गतस्य
 
पातालमीश ! तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव ! रसातलं ते
 
तलमद्भुतात्मन्
 
गुल्फद्रयं खलु महातलद्भुतात्मन् ! ॥ १ ॥
एवमिति । हे ईश ! एबम् उक्तप्रकारेण चतुर्दश जगन्ति लोकाः तन्म-
यतां तन्निर्मितशरीरतां गतस्य तव पादतलं पातालं वदन्ति । उपासनाविदो
मुनय इति शेषः । पादोर्ध्वदेशं प्रपद्युगलम् । अद्भुता आत्मानः शरीराणि यस्य
सोऽद्भुतात्मा ॥ १ ॥
 

 
जते तलातलमथो सुतलं च जानू
किञ्चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरमङ्ग ! नाभि-
र्वभव शक्रनिलयस्तव चक्रपाणे ! ॥ २ ॥
 
जङ्के इति । ऊरुभागयुगलमिति ऊर्वोरधोभागो वितलम् ऊर्ध्वभागोइतलाम-
त्यर्थः । क्षोणीतलं जबनं कटीतटम् । जघनशब्दनिर्देशस्तु भगवत्कटितटस्य सौन्द
र्यविवक्षया, 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्युक्तत्वात् । अङ्ग ! हे
भगवन् ! शक्रनिलयः स्वर्गस्तव वक्षश्च हे चक्रपाणे! ॥ २ ॥
 
ग्रीवा महस्तव मुखं च जनस्तपस्तु
 
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो ! जगदाश्रितैर-
प्यन्यैर्निवद्धवपुषे भगवन् ! नमस्ते ॥ ३ ॥