This page has been fully proofread once and needs a second look.

दशकम् - ६]
 
त्रिराड्देहस्य जगदात्मत्ववर्णनम् ।
 
४३
 
तथाविधस्त्वं निर्भातोऽसि । हे मरुत्पुराधिप ! स त्वं सर्वामयात् सर्वस्माद् बाह्या-

दाभ्यन्तराच्च रोगाद् मां त्रायस्व रक्षतादित्यर्थः ॥ १० ॥
 

 
इति विराट्पुरुषोत्पत्तिप्रकारवर्णनं

पञ्चमं दशकम् ।
 

 
एवं भगवतो बिविराडाह्वयस्य स्थूलशरीरस्योत्पत्तितिं प्रदर्श्य सम्प्रत्युपासनार्थं

तदवयवभेदकल्पनाप्रकारमाह-
-
 
एवं चतुर्दशजगन्मयतां गतस्य
 

पातालमीश ! तव पादतलं वदन्ति ।

पादोर्ध्वदेशमपि देव ! रसातलं ते
 
तलमद्भुतात्मन्
 

गुल्फद्यं खलु महातल<fix>म</fix>द्भुतात्मन् ! ॥ १ ॥

 
एवमिति । हे ईश ! एबम् उक्तप्रकारेण चतुर्दश जगन्ति लोकाः तन्म-

यतां तन्निर्मितशरीरतां गतस्य तव पादतलं पातालं वदन्ति । उपासनाविदो

मुनय इति शेषः । पादोर्ध्वदेशं प्रपद्युगलम् । अद्भुता आत्मानः शरीराणि यस्य

सोऽद्भुतात्मा ॥ १ ॥
 

 
जते

 
जङ्घे
तलातलमथो सुतलं च जानू

किञ्चोरुभागयुगलं वितलातले द्वे ।

क्षोणीतलं जघनमम्बरमङ्ग ! नाभि-
र्वभव

र्वक्षश्च
शक्रनिलयस्तव चक्रपाणे ! ॥ २ ॥
 

 
जङ्केघे इति । ऊरुभागयुगलमिति ऊर्वोरधोभागो वितलम् ऊर्ध्वभागोइतलामऽतलमि-

त्यर्थः । क्षोणीतलं जनं कटीतटम् । जघनशब्दनिर्देशस्तु भगवत्कटितटस्य सौन्द
-
र्यविवक्षया, 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवेबे तु जघनं पुरः' इत्युक्तत्वात् । अङ्ग ! हे

भगवन् ! शक्रनिलयः स्वर्गस्तव वक्षश्च हे चक्रपाणे! ॥ २ ॥
 

 
ग्रीवा महस्तव मुखं च जनस्तपस्तु
 

फालं शिरस्तव समस्तमयस्य सत्यम् ।

एवं जगन्मयतनो ! जगदाश्रितैर-

प्यन्यैर्निद्धवपुषे भगवन् ! नमस्ते ॥ ३ ॥