This page has not been fully proofread.

४२
 
नारायणीये
 
सम्प्रत्येतैस्तत्त्वैर्भगवतो ब्रह्माण्डनिर्माणप्रकारमाह-
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्
नो शेकुर्भुवनाण्ड निर्मितिविधा देवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिनुतगुणस्तत्त्वान्यमृन्याविशं
श्रेष्टाशक्तिमुढ़ीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ९ ॥
 
[स्कन्धः - २
 
एत इति । एते पूर्वोक्ता भूतगणाः शब्दादिसूक्ष्मभूतानां व्योमादिमहाभूतानां
च गणा दशकं, तथेन्द्रियगणा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अन्तरिन्द्रियवृत्तिभिश्च-
तसृभिः सह् चर्तुदेश. तद्धिष्ठाभ्यो देवताश्च चतुर्दश । चः समुच्चये, यद्वा अप्यर्थे ।
एते जाता अपि भुवनाण्डनिर्मितिविधौ ब्रह्माण्डनिर्माणव्यापारे पृथक् पृथग्भूत-
त्वाद् नो शेकुः नाशक्नुवन् । यदा न शेकुः, तदा अमीभिर्देवैश्चतुर्दशभिः नाना-
विधाभिः सूक्तिभिः स्तोत्रैनुगुणस्त्वम् । अयं भावः – मायासृष्ट्यनन्तरमेव त
• त
च्छुद्धसत्त्वांशेनाङ्गीकृतलीलाविग्रहं त्वामेते देवाः सूक्तिभिः स्तुतवन्त इति । तदैर्थ-
नया चामूनि तत्त्वान्याविशन् प्रविशन् तेषां तत्त्वानां चेष्टाशक्तिमुदीर्य क्रियासाम-
र्थ्यमुत्पाद्य तानि मिथो घटयन् गुणप्रधानभावेन संयोजयन् हैरण्यं प्रकाशबहुलतया
सुवर्णपिण्डबदत्युज्ज्वलम् अण्डं ब्रह्माण्डारूयं स्वशरीरं व्यथाः निर्मितव(नसी-
त्यर्थः ॥ ९ ॥
 

 
अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा
निर्भिन्दन्नकथाचतुर्दशजगदूपं विराडाह्वयम् ।
साहस्रै: करपादमूर्धनिर्वाहैर्निश्शेपजीवात्मको
 
निर्भातोऽसि मरुत्पुराधिप ! स मां त्रायस्व सर्वामयात् ॥ १० ॥
 
अण्डमिति । तत् खलु तदचेतनमेवाण्डं पूर्वसृष्टसलिले आवरणोदके सहस्रं
समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । अतिष्ठत् स्थितमभूत् । ततश्च त्वं
स्वांशेन तत् प्रविश्य निर्भिन्दन् विविधं विभजन् चतुर्दशजगद्रूपं विविधं राजमान-
त्वाद् विराट्संज्ञकं शरीरमक्कथाः कृतवानसि । ततः साहस्रैः सहस्रसङ्ख्यापरिमितैः
करपादमूर्धाद्यवयवानां निवः समूहैः निश्शेषजीवात्मकः निश्शेषाणां चराचराणां
जीवः समप्ट्यात्मक एवात्मा स्वरूपं यस्य स निश्शेषजीवात्मको हिरण्यगर्भः,
 
१. 'ताः स्तुता गुणा यस्य स त्वं नुतगुणः । अ' क. पाठ: २. 'तश्च त्वममू' क. पाठ:
३. 'पुरटपि' क. पाठ:.