This page has been fully proofread once and needs a second look.

४२
 
नारायणीये
 
सम्प्रत्येतैस्तत्त्वैर्भगवतो ब्रह्माण्डनिर्माणप्रकारमाह-
-
 
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्

नो शेकुर्भुवनाण्ड निर्मितिविधा देवैरमीभिस्तदा ।

त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमृमून्याविशं
-
श्रेचेष्टाशक्तिमुढ़ीदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ९ ॥
 
[स्कन्धः - २
 

 
एत इति । एते पूर्वोक्ता भूतगणाः शब्दादिसूक्ष्मभूतानां व्योमादिमहाभूतानां

च गणा दशकं, तथेन्द्रियगणा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अन्तरिन्द्रियवृत्तिभिश्च-

तसृभिः सह् चर्ह चतुदेर्दश. तद्धिष्ठाभ्<flag>त्</flag>र्यो देवताश्च चतुर्दश । चः समुच्चये, यद्वा अप्यर्थे ।

एते जाता अपि भुवनाण्डनिर्मितिविधौ ब्रह्माण्डनिर्माणव्यापारे पृथक् पृथग्भूत-

त्वाद् नो शेकुः नाशक्नुवन् । यदा न शेकुः, तदा अमीभिर्देवैश्चतुर्दशभिः नाना-

विधाभिः सूक्तिभिः स्तोत्रैर्नुत[^१]गुणस्त्वम् । अयं भावः--मायासृष्ट्यनन्तरमेव त
• त
-
च्छुद्धसत्त्वांशेनाङ्गीकृतलीलाविग्रहं त्वामेते देवाः सूक्तिभिः स्तुतवन्त इति । तदैद[^२]र्थ-

नया चामूनि तत्त्वान्याविशन् प्रविशन् तेषां तत्त्वानां चेष्टाशक्तिमुदीर्य क्रियासाम-

र्थ्यमुत्पाद्य तानि मिथो घटयन् गुणप्रधानभावेन संयोजयन् हैरण्यं प्रकाशबहुलतया

सु[^३]वर्णपिण्डदत्युज्ज्वलम् अण्डं ब्रह्माण्डारूख्यं स्वशरीरं व्यथाःधाः निर्मितव(वानसी-

त्यर्थः ॥ ९ ॥
 

 

 
अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा

निर्भिन्दन्नकृथाश्चतुर्दशजगदूद्रूपं विराडाह्वयम् ।

साहस्रै: करपादमूर्धनिर्वाहैर्निश्शेजीवात्मको
 

निर्भातोऽसि मरुत्पुराधिप ! स मां त्रायस्व सर्वामयात् ॥ १० ॥
 

 
अण्डमिति । तत् खलु तदचेतनमेवाण्डं पूर्वसृष्टसलिले आवरणोदके सहस्रं

समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । अतिष्ठत् स्थितमभूत् । ततश्च त्वं

स्वांशेन तत् प्रविश्य निर्भिन्दन् विविधं विभजन् चतुर्दशजगद्रूपं विविधं राजमान-

त्वाद् विराट्संज्ञकं शरीरमक्ककृथाः कृतवानसि । ततः साहस्रैः सहस्रसङ्ख्यापरिमितैः

करपादमूर्धाद्यवयवानां निवःवहैः समूहैः निश्शेषजीवात्मकः निश्शेषाणां चराचराणां

जीवः समप्ष्ट्यात्मक एवात्मा स्वरूपं यस्य स निश्शेषजीवात्मको हिरण्यगर्भः,
 

 
[^
]. 'ताः स्तुता गुणा यस्य स त्वं नुतगुणः । अ' क. पाठ: ठः
[^
]. 'तश्च त्वममू' क. पाठ:
ठः
[^
]. 'पुरटपि' क. पाठ:.
 
ठः