This page has not been fully proofread.

दशकम् - ५]
 
विरापुरुषोत्पत्तिप्रकारवणनम् ।
 
पुनरपि वैकारिकसृष्टिमाह --
 
भूमन्!
 
मानसबुद्ध्यहङ्गतिमिलच्चित्ताख्यवृत्यन्वितं
तच्चान्तःकरणं विभो ! तब बलात् सत्वांश एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात् पुन-
स्तन्मात्रं नमसो मरुत्युपते ! शब्दोऽजनि त्वद्धलात् ॥ ७ ॥
 
भूमन्निति । हे भूमन् ! विभो ! तव बलात् त्वत्प्रेरणात् सत्त्वांशः सात्त्विका-
हङ्कार एवं मानसबुद्ध्यहşतिभिः मिलन्त्या सहितया चित्ताख्यवृत्त्यान्वितं सहितं
तत् सत्त्वप्रधानमन्तःकरणं चासृजत् सृष्टवान् । तैजसतः राजसाहङ्काराद् दशानां
ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च गणो जातः । तस्याहङ्कारस्य तामसांशात् पुनः हे
मरुत्पुरपते ! वातालयेश ! त्वइलात् त्वत्प्रेरणाद् नभस आकाशस्य तन्मात्रम् अप-
श्रीकृतत्वात् सूक्ष्मोंऽशः शब्दः अजनि जातः ॥ ७ ॥
 
पुनरपि तामसाहङ्कारसृष्टि प्रपञ्चयति -
 
शब्दाद् व्योम ततः ससजिथ विभो! स्पर्श ततो मारुतं
तस्माद् रूपमतो महोऽथच रसं तोयं च गन्धं महीम् ।
एवं माधव ! पूर्वपूर्वकलनादाद्यायधर्मान्वितं
 
भूतग्राममिमं त्वमेव भगवन् ! माकाशयस्तामसात् ॥ ८ ॥
 

 
शब्दादिति । हे विभो ! त्वं शब्दाद् व्योम आकाशं ससर्जिथ सृष्टवानसि ।
ततो व्योम्नः स्पर्शं वायुगुणं, ततः स्पर्शाद् वायुं, तस्माद् मारुताद् रूपं तेजोगुणं,
अतोऽस्माद् रूपाद् महरतेजः, अथच अनन्तरम् अर्थात् तेजसो रसम् अब्गुणं,
रसात् तोयं, तोयाद् गन्धं पृथिवीगुणं, गन्धाद् महीं पृथिवीं च ससर्जिथ । एवं
पूर्वपूर्वैः कलनाद् मेलनाद् उत्तरमुत्तरम् आद्याद्यधर्मेरन्वितमिति । अत्रायमर्थः—
आकाशं शब्दगुणकं, वायुः शब्द स्पर्शगुणकः, तेजः शब्दस्पर्शरूपगुणकं, जलं श-
ब्दस्पर्शरूपरसगुणकं, पृथिवी शब्दस्पर्श रूपरसगन्धवतीति । हे भगवन् ! भजनी-
यगुण !हे माधव ! श्रीपते ! त्वमेवेमं भूतग्रामं सगुणमहाभूतपञ्चकं तामसात् तः -
मसाहङ्कारात् प्राकाशयः प्रकाशितवानसि ॥ ८ ॥