2023-02-16 08:52:03 by ambuda-bot
This page has not been fully proofread.
नारायणीये
स्कन्धः - २
समट्यात्मकेऽस्मिन् जीवे खलु निर्विकल्पं मनुष्यत्वादिविशेषणरहितं यथा भवति
तथा अहमित्येवंप्रकारेण स्थितस्योद्बोधस्य ज्ञानस्य निष्पादकः कारणम् । असौ म
हान् महत्तत्त्वं कर्तृ हे विष्णो ! भवत्प्रेरणात् खलु भवान् हि महान्तमधिष्ठाय तं
प्रेरितवान्, अतः खल्वसौ अहंतत्त्वं चक्रे । तच्चास्मिन् जीवे सविकल्पबोधकम्
अहं मनुष्य इत्यादिसविकल्पकज्ञाननिष्पादकं त्रिगुणैः संपुष्टं त्रिगुणात्मकं, तथापि
तमोतिबहुलम् अतितरां तमःप्रधानमित्यर्थः ॥ ५ ॥
४०
अथाहमस्त्रैविध्यमाह ·
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ६ ॥
स इति । सः महत्कार्यभूतः अहं च अहङ्कारश्च भवन् उत्पन्नः सन् भूयः
पुनः त्रिगुणक्रमात् त्रयाणां गुणानां सत्त्वं रजस्तम इत्यनेन क्रमेण वैकारिकस्तैजस-
स्तामस इत्यनेन क्रमेण त्रिविधतां त्रिप्रकारतामासाद्य प्राप्य सत्त्वात्मना सात्त्विकेन
आद्येन वैकारिकाहङ्कारेण इन्द्रियमानिनो देवान् इन्द्रियाणामधिष्ठातृदेवान् अकृत
कृतवान् । के ते इत्यत आह – दिशेति । दिग्वातार्कप्रचेतोश्विनः क्रमाच्छ्रो-
त्रत्वक्चक्षुर्जिह्वाघ्राणानां ज्ञानेन्द्रियाणामधिष्ठानदेवताः । तत्र चायं जीवः कर्णद्वा-
रादिषु स्थितानां श्रोत्रादीन्द्रियाणां स्वस्वाधिष्ठानदेवताभिः प्रेरितः श्रोत्रादीन्द्रिय-
द्वारा निर्गच्छन्तीभिरन्तःकरणवृत्तिभिः शब्दादिविषयाननुभवति । एवं वहीन्द्रोपे-
न्द्रमित्रप्रजापैतिसंज्ञाः क्रमाद् वाक्पाणिपादपायूपस्थाख्यकर्मेन्द्रियैपञ्चकाधिष्ठात्र्यो
देवताः। †तैरयं प्रेरितो जीवो वचनादानगमर्नेविसर्गानन्दानुभवरूपाणि कर्माणि क-
रोति । एवं चन्द्रचतुर्मुखश्रीरुद्रक्षेत्रज्ञां मनोबुद्ध्यहङ्कारचित्तौख्यान्तःकरणचतुष्टय-
देवताः । तैरयं सङ्कल्पनिश्चयशरीराभिमानधारणा अधिगच्छति ॥ ६ ॥
१. 'तो' क. पाठः.
२. 'पतिभिः प्रेरितैः वा' क. पाठः,
४. 'नपुरीषोत्स' क. पाठः) ५. 'न्दाननुभवति' क. पाठ:.
'तैरन्तःकरणवृत्तिभिः स' क. पाठः, ८. 'णा अनुभवति' क. पाठ:.
† वह्नीन्द्रोपेन्द्रमित्रप्रजापतिभिः ।
३. 'यै: वच' क. पाठ:.
६. 'ज्ञप्रेरितैर्म' क. पाठः.