This page has not been fully proofread.

विराट्पुरुषोत्पत्तिप्रकारवर्णनम् ।
 
३९
 
एवं मायासृष्टिमुक्त्वा तत्कार्यस्य महतः सृष्टिमभिधातुं पुरुषस्वरूपमाह -

मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
 

 
भेदैस्तां प्रतिविम्वतो विविशिवान् जीवोऽपि नैवापरः ।

कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं
 

 
माया सा खलु बुद्धितत्त्वमसृजद् योऽसौ महानुच्यते ॥ ४ ॥
 
दशकम् - ५]
 

 
मायेति । मायासन्निहितो मायोपाधिकः अप्रविष्टेन तदाश्रयत्वेन बहिःस्थि-

तेनानुपहितेन वपुषा स्वरूपेण चोपलक्षितः, एकांशेन मायामवष्टभ्य स्थित इत्यर्थः ।

अत्र सन्निहितशब्देन परमार्थरूपस्य परमात्मनोऽपरमार्थभूतोपाधिसम्बन्धस्यापरमा-

र्थता द्योत्यते । एवम्भूतो भवान्ं सर्वप्रकाशकत्वात् साक्षीति गीतः निगमान्तै-

स्तद्विद्भिर्वेति शेषः। भेड़ैरिति यावदुपाधिभेदमात्मानं विभज्य तां मायां, तत्कृतानु-

पाधीनिति यावत्, प्रतिबिम्बतः प्रतिबिम्बरूपेण विविशिवान् प्रविष्टः शरीरादि-

प्वहमित्यभिमन्यमानो भवानेव जीवोऽपि, नापरः न त्वत्तोऽन्यो जीवः । एवं जी-

वेश्वरभेदेन पुरुषस्य द्वैविध्यमुक्त्वा तत्सम्बन्धे महत उत्पत्ति दर्शयति – काला-

दीिति । कालकर्मस्वभावैः प्रतिबोधिता संक्षोभितरजआदिगुणतया कार्योन्मुखीकृता

भवता च सञ्चोदिता आहितवीर्या सती सामाया खलु बुद्धितत्त्वमसृजत् सृष्टवती,

योऽसौ महानिति महत्तत्त्वमित्युच्यते । महच्छब्दसामानाधिकरण्याय पुंस्त्वनिर्दे-

शः । तद् बुद्धितत्त्वमिति पूर्वेणान्वयः ॥ ४ ॥
 

 
नैनु किमिदं महच्छब्दवाच्यं, बुद्धितत्त्वमिति चेत्, तदपि किं, कीदृशं चास्य

स्वरूपमिल्याशङ्कायामाह -
 

 
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं

जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्धोधनिष्पादकः ।

चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ

संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो ! भवत्प्रेरणात् ॥ २॥
 

 
तत्रेति । तत्र मायाकार्येषु असौ महान् स्वयं त्रिगुणात्मकोऽपि सत्त्वप्रधानः

प्रकाशबहुलत्वाज्जीवानां समष्टिरेको महान् जीवः । यथा वृक्षाणां समष्टिर्वनम्, एवं
 

 
१. 'न् विष्णुः स' क. पाठ:. २. 'तत्स्वरूपमा' ख. पाठ:. ३. 'ले' क. पाठ:.