This page has not been fully proofread.

३८
 
नारायणीये
 
[स्कन्धः - २
 
र्थ : । ननु लीनाश्चेदसन्त एवेत्याशङ्क्य विपक्षे बाधक॑माह -- --नो चेदिति । य-

द्येषामसत्त्वं, तर्हि गगनकुसुमसदृशानामेतेषां भूयः प्रलयावसाने सम्भवो न

भवेत् । तच्चानिष्टम् । अतस्तेषां कारणात्मना सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ २ ॥

 
सम्प्रति भगवतो विराण्मूर्तेरुत्पत्तिप्रकारं दर्शयत्येवमित्यष्टभिः
--
 
एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां

विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् ।

मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च

प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ ३ ॥
 

 
एवमिति । एव[^१]मुक्तप्रकारेण ब्रह्ममात्रावशेषेण द्विपरार्धकालस्य विगतौ अ-

वसाने सति । अत्र चकारो द्विपरार्धपरिमितकाल एव ब्रह्मणः परमायुरिति दर्श
-
यति । अयं भावः--अस्मादृशां [^२]संवत्सरो देवानामहोरात्रः "मासेन स्यादहोरात्रः

पैत्रो वर्षेण दैवत" इति वचनात् सबैर्वं ज्ञेयम् । प्राकृतप्रलयस्यापि ब्रह्मायुः परिमि
-
तद्विपरार्धकालतुल्यपरिमाणत्वमनुमेयमिति । तादृशकालविगमे सति त्वयि ब्रह्मणि

सिसृक्षात्मिकामीक्षां बिभ्राणे[^३] इति । ईक्षां सिसृक्षाचिन्तनादिशब्दवाच्यां मायाप्रे
-
रणरूपां क्रियामिव बिभ्राणे अङ्गीकृतवति सति माया स्वयं चुक्षुभे चलिता ब्र
-
ह्मणः पृर्थेथ[^४]गिव प्रकाशं प्राप्ता स्थिता । किमर्थं, त्रिभुवनीभावाय, प्रागतथावि-

धापि पुनस्त्रैलोक्यरूपेण विवर्तितुमित्यर्थः । मायातः एवं क्षुब्धाया मायायाः सका-

शात् । खल्वित्यवधारणे । कालशक्तिः ईश्वरस्य कालाख्या शक्तिः । अखिलानां

प्राक्तनजीबानौना[^५]मित्यर्थाद्, अदृष्टं सुकृतदुष्कृतरूपं स्वभावोऽपि च प्रादुर्भूयास्या गु-

णान् रजस्तमःसत्त्वाख्यान् विकास्य साम्यावस्थामपास्य कार्योन्मुखान् कृत्वा

तस्या मायायाः सहायक्रियां त्रिभुवनीभावापत्तये परिकर्म विदधुश्चक्रुः ॥ ३ ॥
 

 
[^
]. 'वं ब्र' ख. पाठ: ठः
[^
]. 'संवत्सरैः ? वासरैः षष्ट्युत्तरशतत्रयसङ्ख्यापरिमितैः देवानामहो·
रात्र उच्यते । तादृशाहोरात्रैर्दिव्य संवत्सरः । तैर्द्वादशसहस्त्रैश्चतुर्युगं द्विसहस्रैश्चतुर्युगैर्ब्रह्मणोऽहोरात्रः।
तादृशाहोरात्रैर्ब्रह्मणः संवत्सरः । पञ्चाशद्भिः संवत्सरैर्ब्रह्मण आयुषोऽर्द्धं परार्द्धमुच्यते । तद्द्वितयं
द्विपरार्द्धमिति । त्वयि' क. पाठ:. ठः
[^
]. 'णे अ' ख. पाठः,
[^
]. 'थग्भूय स्थि' ख. पाठः
[^
].
'नामनुशयितानामद्द' क. पाठ:
 
ठः