2023-02-16 08:52:03 by ambuda-bot
This page has not been fully proofread.
विराट्पुरुषात्पात्तप्रकारवणनम् ।
नो मृत्युश्च तदामृतं च समभून्नाहो न रात्रेः स्थिति-
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ १ ॥
दशकम् - [५]
व्यक्तेति । प्राक् पुरा प्राकृतप्रक्षये ब्रह्मप्रलये व्यक्ताव्यक्तं स्थूलसूक्ष्मात्मकं का-
र्यकारणात्मकं वा इदं शरीरादिकं किञ्चिन्नाभवत् । अत्र हेतुमाह-मायायां त्व-
यि लयमागतायामिति । मायालये हेतुमाह - गुणसाम्यरुद्धविकृताविति । गुणाः
सत्त्वरजस्तमांसि, तेषां साम्यावस्थया रुद्धाः स्तम्भिता विकृतयः कार्याणि यस्यां
तादृश्यां, मायाया ब्रह्मणि लीनत्वान्मायाकार्य किञ्चिदपि तदा नासीदित्यर्थः ।
मृत्युः संसारः । अमृतं मोक्षः । तदा बन्धो मोक्षश्च न समभूत् । नाहो न
रात्रेः स्थितिः मर्यादाविभागो नासीत् । तत्र तस्मिन् काले त्वमेको ब्रह्मैवाशिष्य-
थाः शिष्टोऽभूः । तवापि तदानीं न लीलाविग्रहपरिग्रह इत्याह - परानन्दप्रका-
शात्मना सच्चिदानन्दस्वरूपेणेति । किशब्दोऽत्रास्या अवस्थायाः तद्वाग्रूपा-
म्नायान्तैकवेद्यतां दर्शयति ॥ १ ॥
एतदेव प्रपञ्चायति
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्य विभो !
चिल्लीलारतिमेयुषि त्वयि तदा निलींनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोः ! शक्त्यात्मना तिष्ठतां
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः ॥ २ ॥
काल इति । गुणः सत्त्वादिः कालः तत्क्षोभकः, कर्म जीवादृष्टं,
जीवानां निवहाः समूहाश्च, किं बहुना विश्वम् अखिलमपि कार्य माया कार्य
हे विभो! सर्गस्थितिलयनिदानभूत ! त्वयि चिदात्मके स्वस्वरूपानुसन्धानरूपा
लीला चिल्लीला तस्यां रतिम् इच्छाम् एयुषि प्राप्तवन्ति, योगनिद्रामारिप्सौ सती-
त्यर्थः । तद्वैतानि निर्लीनताम् अदर्शनताम् आययुः प्राप्तवन्ति । न चात्यन्त
मसत्त्वं जातमित्याह – तेषामिति । तेषां कालकर्मादीनां शशविषाणवदत्यन्तास-
त्त्वं नैव बदन्ति, श्रुतयस्तद्रष्टार इति वा शेषः । तत्रोपपत्तिमाह - शक्त्यात्मने-
ति । अयि भोः ! भगवन् ! त्वाय शक्त्यात्मना कारणरूपेण तिष्ठतां स्थितानामित्य-
१. 'लेल्यनेनात्र त्व' ख. पाठः, २. 'ता दर्शिता ।' ख. पाठः, ३. 'ति । त्वयि यो' क.
पाठः, ४. 'प्सति स' क. पाठः,