This page has not been fully proofread.

विराट्पुरुषात्पात्तप्रकारवणनम् ।
 
नो मृत्युश्च तदामृतं च समभून्नाहो न रात्रेः स्थिति-

स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ १ ॥
 
दशकम् - [५]
 

 
व्यक्तेति । प्राक् पुरा प्राकृतप्रक्षये ब्रह्मप्रलये व्यक्ताव्यक्तं स्थूलसूक्ष्मात्मकं का-

र्यकारणात्मकं वा इदं शरीरादिकं किञ्चिन्नाभवत् । अत्र हेतुमाह--मायायां त्व-

यि लयमागतायामिति । मायालये हेतुमाह - --गुणसाम्यरुद्धविकृताविति । गुणाः

सत्त्वरजस्तमांसि, तेषां साम्यावस्थया रुद्धाः स्तम्भिता विकृतयः कार्याणि यस्यां

तादृश्यां, मायाया ब्रह्मणि लीनत्वान्मायाकार्यं किञ्चिदपि तदा नासीदित्यर्थः ।

मृत्युः संसारः । अमृतं मोक्षः । तदा बन्धो मोक्षश्च न समभूत् । नाहो न
ह्नो न
रात्रेः स्थितिः मर्यादाविभागो नासीत् । तत्र तस्मिन् काले त्वमेको ब्रह्मैवाशिष्य-

थाः शिष्टोऽभूः । तवापि तदानीं न लीलाविग्रहपरिग्रह इत्याह - --परानन्दप्रका-

शात्मना सच्चिदानन्दस्वरूपेणेति । किल[^१]शब्दोऽत्रास्या अवस्थायाः तद्वाग्रूपा-

म्नायान्तैकवेद्यतां[^२] दर्शयति ॥ १ ॥
 

 
एतदेव प्रपञ्चायति
 
चयति--
 
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो !

चिल्लीलारतिमेयुषि त्वयि तदा निलींर्लीनतामाययुः ।

तेषां नैव वदन्त्यसत्त्वमयि भोः ! शक्त्यात्मना तिष्ठतां

नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत् सम्भवः ॥ २ ॥
 

 
काल इति । गुणः सत्त्वादिः, कालः तत्क्षोभकः, कर्म जीवादृष्टं,

जीवानां निवहाः समूहाश्च, किं बहुना विश्वम् अखिलमपि कार्य माया कार्य
यं मायाकार्यं
हे विभो! सर्गस्थितिलयनिदानभूत ! त्वयि चिदात्मके स्वस्वरूपानुसन्धानरूपा

लीला चिल्लीला तस्यां रतिम् इच्छाम् एयुषि प्राप्तवन्ति[^३], योगनिद्रामारिप्[^४]सौ सती-

त्यर्थः । तद्वैदैतानि निर्लीनताम् अदर्शनताम् आययुः प्राप्तवन्ति । न चात्यन्त
-
मसत्त्वं जातमित्याह--तेषामिति । तेषां कालकर्मादीनां शशविषाणवदत्यन्तास-

त्त्वं नैव दन्ति, श्रुतयस्तद्द्रष्टार इति वा शेषः । तत्रोपपत्तिमाह - --<flag>क्त्</flag>यात्मने-

ति । अयि भोः ! भगवन् ! त्वायवयि शक्त्यात्मना कारणरूपेण तिष्ठतां स्थितानामित्य-

 
[^
]. 'लेल्त्यनेनात्र त्व' ख. पाठः,
[^
]. 'ता दर्शिता ।' ख. पाठः,
[^
]. 'ति । त्वयि यो' क.
पाठः,
[^
]. 'प्सति स' क. पाठः,