This page has not been fully proofread.

कन्व
 
तस्य चेति । तस्य ब्रह्माण्डस्य च सप्तावरणानि सन्ति । तान्योह- क्षि-
तीति । क्षितिपयोमहोनिलद्यावः पञ्चभूतानि, महँत् महत्तत्त्वं, प्रकृतिर्माया, आसां
सप्तकमेव आवृतयः आवरणानि । अत्र महच्छब्दोऽहन्तत्त्वस्याप्युपलक्षकः । तेन
पञ्चभूतानि महदहङ्कारौ च सप्तावरणानि । प्रकृत्यावरणं त्वष्टमं व्यापकमेव ।
एता आवृतीस्तत्तदात्मकतया तत्तदावरणमेवात्मा मूर्तिर्यस्य स तत्तदात्मकः,
तत्तैया विशन्निति तत्तदावरणेषु तत्तदात्मना सूक्ष्मशरीरण प्रविशन्नित्यर्थः । सुखी
तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो ! विश्वव्यापिन् ! ते अनावृतं पदं
ब्रह्मपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत
आवरणस्यापि विल्यादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥
 
एवं मुक्तः पुनर्न संसारीत्याह ---
 
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ! ।
सच्चिदात्मक ! भवद्गुणोदयानुच्चरन्तमनिलेश ! पाहि माम् ॥ १५ ॥
 
अर्चिरादीति । ईदृशीमचिरादिगतिं त्रजन् जीवः विच्युतिं पुनरावृत्तिं न
भजते । अत्र हेतुगर्भे सम्बोधनं – सच्चिदात्मकेति । हे अनिलेश ! श्रीगुरुवायु-
पुरनाथ ! जगत्पते ! भवद्गुणोदयान् त्वगुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां
पाहि आधिव्याधिसङ्कटेभ्यो रक्षं ॥ १९ ॥
 
इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च
चतुर्थ दशकं सपञ्चकम् ।
 
एवं शुद्धसत्त्वमयमूर्त्यापासनां फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्ती-
शोपासनां दर्शयिष्यन्नादौ भगवतः स्थूलशरीरस्योत्पत्त्युपपत्तये तस्य प्रागभावं दर्श-
यति -
 
व्यक्ताव्यक्तमिदं न किञ्चिद्भवत् प्राक् प्राकृतप्रक्षये
मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
 
१. 'नाह' क. ग. पाठ: २. 'तिप' क. ग. पाठः, ३. 'हान्' ख. पाठ:.
विशन् त' ख पाठ: ५. 'द्भावेन वि' क. ग. पाठः,
 
'त्तया प्रवि' ख. पाठ:
 
ख. पाठ:. ७. 'ण सह प्र' क. ग. पार्ड: ८. 'ट: सन्नि' क. ग. पाठः,
 
क. पाठः
 
४. 'या
६. 'न् त'
 
९. 'क्षेत्यर्थः । '