This page has not been fully proofread.

कन्व
 
तस्य चेति । तस्य ब्रह्माण्डस्य च सप्तावरणानि सन्ति । तान्योया[^१]ह- -क्षि-

ती[^२]ति । क्षितिपयोमहोनिलद्यावः पञ्चभूतानि, महँह[^३]त् महत्तत्त्वं, प्रकृतिर्माया, आसां

सप्तकमेव आवृतयः आवरणानि । अत्र महच्छब्दोऽहन्तत्त्वस्याप्युपलक्षकः । तेन

पञ्चभूतानि महदहङ्कारौ च सप्तावरणानि । प्रकृत्यावरणं त्वष्टमं व्यापकमेव ।

एता आवृतीस्तत्तदात्मकतया[^४] तत्तदावरणमेवात्मा मूर्तिर्यस्य स तत्तदात्मकः,
तत्तै

तत्त[^५]
या विशन्नि[^६]ति तत्तदावरणेषु तत्तदात्मना सूक्ष्मशरीरण[^७] प्रविश[^८]न्नित्यर्थः । सुखी

तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो ! विश्वव्यापिन् ! ते अनावृतं पदं

ब्रह्मपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत

आवरणस्यापि विल्यादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥
 

 
एवं मुक्तः पुनर्न संसारीत्याह ---
 

 
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ! ।

सच्चिदात्मक ! भवद्गुणोदयानुच्चरन्तमनिलेश ! पाहि माम् ॥ १५ ॥
 

 
अर्चिरादीति । ईदृशीमचिरादिगतिं त्व्रजन् जीवः विच्युतिं पुनरावृत्तिं न

भजते । अत्र हेतुगर्भेभं सम्बोधनं--सच्चिदात्मकेति । हे अनिलेश ! श्रीगुरुवायु-

पुरनाथ ! जगत्पते ! भवद्गुणोदयान् त्वद्गुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां

पाहि आधिव्याधिसङ्कटेभ्यो रक्षंष[^९] ॥ १९ ॥
 

 
इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च

चतुर्थं दशकं सपञ्चकम् ।
 

 
एवं शुद्धसत्त्वमयमूर्त्यापासनां फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्ती-

शोपासनां दर्शयिष्यन्नादौ भगवतः स्थूलशरीरस्योत्पत्त्युपपत्तये तस्य प्रागभावं दर्श-
यति

यति
-
 
-
 
व्यक्ताव्यक्तमिदं न किञ्चिद्भवत् प्राक् प्राकृतप्रक्षये

मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
 

 
[^
]. 'नाह' क. ग. पाठ: ठः
[^
]. 'तिप' क. ग. पाठः,
[^
]. 'हान्' ख. पाठ:.
ठः
[^४]. 'या
विशन् त' ख पाठ: ठः
[^
]. 'द्भावेन वि' क. ग. पाठः,
 
'त्तया प्रवि' ख. पाठ:
 

[^६]. 'न् त'
ख. पाठ:. ठः
[^
]. 'ण सह प्र' क. ग. पार्ड: ठः
[^
. ']. 'ष्ट: सन्नि' क. ग. पाठः,
 

[^९]. 'क्षेत्यर्थः । '
क. पाठः
 
४. 'या
६. 'न् त'
 
९. 'क्षेत्यर्थः । '