This page has not been fully proofread.

दशकम् - ४]
 
योगसिद्धिवर्णनम् ।
 
शेषवऋदहनोप्मप्राप्तेः प्रागेव वा यथेच्छं तत्र गन्तुं शक्यमेव । अयमत्राभि-
प्रायः -- यद्ययं त्वरितं त्वत्पदं जिगमिषुर्भवति, तर्हि विद्युल्लोकावधि गर्तमेनं
ब्रह्माज्ञ्याँ यः कश्चिदमेयवपुर्ब्रह्मलोकादागर्त्ये विद्युल्लोकमार्गेण शक्रप्रजापतिलोकमा-
र्गेण च नीत्वा विरजानदीं तारयित्वा ब्रह्मलोकं प्रापयति । तदा चायं दिव्यशरीरो
भवतीति ॥ १२ ॥
 
अथ ब्रह्मलोकं प्राप्तानां गतिद्वैविध्यमाह
 
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरापि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३ ॥
 
तत्रेति । एवं सत्यलोकं प्राप्तोऽयं तत्र ब्रह्मलोके वा अथवा तव पदे
विष्णुलोके वा वसन्निति । अत्रीयमाशयः
सत्यलोकान्तर्भाग एवं ब्रह्मविष्णु-
गिरिशानां लोका इति त्रयो लोकाः सन्ति । तत्र ब्रह्मविष्णुशिवानामुपासकास्त-
त्तल्लोकं प्राप्य तत्तत्समानान् भोगाननुभवन्ति च । प्राकृतप्रलये सति मुक्ततामेति
प्राकृतानां प्रकृतिकार्याणां महदहङ्कारंतन्मात्रपञ्चकादीनां स्वस्वकारणेषु प्रकृष्टो
लयो हि प्राकृतप्रलयः, तस्मिन् सति ब्रह्मणा सह मुक्तो ब्रह्ममात्रमवतिष्ठते ।
अथवा स्वेच्छयेति । इदमत्राकृतं – यद्ययं भुज्यमानेषु ब्रह्मादिभोगेषु मध्ये
विरक्तिमापद्यते, तर्हि महाप्रलयात् प्रागेव विमुच्यते मुक्तो भवति । कथमित्य-
त्राह – जगदण्डं ब्रह्माण्डम् ओजसौं संविभिद्य स्वस्य योगबलेनैव ब्रह्माण्डकट हं
निर्भिद्य तद्द्वारेत्यर्थः ॥ १३ ॥
 
70
 
११
 
ब्रह्माण्डभेदनप्रकारमाह
 
तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥ १४ ॥
 
१. 'गच्छतीति । अ' क. पाठः, २. 'तं जीवं ब्र' क. पाठ:. ३. 'या क' क. पाठ:. ४.
लैनं वि' क. पाठ: ५. 'तिमा' क. पाठ: ६. 'यमभिप्राय:' क. पाठः, ७. 'नभोगमनु' क.
पाठ:. ८. 'ये प्रा' क. पाठः ९. 'रपञ्चतन्मात्राणां प्रलये ब्रह्मप्रलये मुक्ततामेति ब्र' क. पाठः,
१०. 'त इत्यर्थः । अ' क. पाठः, 'ते स्वे' ख. पाठ: ११. 'ति । यदि ब्रह्मादिभोगेषु अतितरां
विरक्ततया महाप्रलयात् प्रागेव मोक्षेच्छा जायते तर्हि इत्यर्थः । पुरा खलु प्रागे' क. पाठ:. १२.
'थं ज' क. पाठः, १३. 'सा स्वस्य योगवलेनैव संविभिय ब्रह्माण्डभेदनद्वा' क, पाठः,