This page has not been fully proofread.

दशकम् - ४]
 
योगसिद्धिवर्णनम् ।
 
शेषवक्त्रदहनोप्ष्मप्राप्तेः प्रागेव वा य[^१]थेच्छं तत्र गन्तुं शक्यमेव । अयमत्राभि-

प्रायः -- --यद्ययं त्वरितं त्वत्पदं जिगमिषुर्भवति, तर्हि विद्युल्लोकावधि गर्तत[^२]मेनं

ब्रह्माज्ञ्याँञया[^३] यः कश्चिदमेयवपुर्ब्रह्मलोकादागर्त्येत्य[^४] विद्युल्लोकमार्गेण शक्रप्रजापति[^५]लोकमा-

र्गेण च नीत्वा विरजानदीं तारयित्वा ब्रह्मलोकं प्रापयति । तदा चायं दिव्यशरीरो

भवतीति ॥ १२ ॥
 

 
अथ ब्रह्मलोकं प्राप्तानां गतिद्वैविध्यमाह
 
--
 
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् ।

स्वेच्छया खलु पुरापि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३ ॥
 

 
तत्रेति । एवं सत्यलोकं प्राप्तोऽयं तत्र ब्रह्मलोके वा अथवा तव पदे

विष्णुलोके वा वसन्निति । अत्रीरा[^६]यमाशयः
--सत्यलोकान्तर्भाग एवं ब्रह्मविष्णु-

गिरिशानां लोका इति त्रयो लोकाः सन्ति । तत्र ब्रह्मविष्णुशिवानामुपासकास्त-

त्तल्लोकं प्राप्य तत्तत्समाना[^७]न् भोगाननुभवन्ति च । प्राकृतप्रलये[^८] सति मुक्ततामेति

प्राकृतानां प्रकृतिकार्याणां महदहङ्कारंर[^९]तन्मात्रपञ्चकादीनां स्वस्वकारणेषु प्रकृष्टो

लयो हि प्राकृतप्रलयः, तस्मिन् सति ब्रह्मणा सह मुक्तो ब्रह्ममात्रमवतिष्ठते
[^१०] ।
अथवा स्वेच्छयेति[^११] । इदमत्राकृतं--यद्ययं भुज्यमानेषु ब्रह्मादिभोगेषु मध्ये

विरक्तिमापद्यते, तर्हि महाप्रलयात् प्रागेव विमुच्यते मुक्तो भवति । कथ[^१२]मित्य-

त्राह--जगदण्डं ब्रह्माण्डम् ओजसौंसा[^१३] संविभिद्य स्वस्य योगबलेनैव ब्रह्माण्डकटाहं

निर्भिद्य तद्द्वारेत्यर्थः ॥ १३ ॥
 
70
 
११
 

 
ब्रह्माण्डभेदनप्रकारमाह
 
--
 
तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः ।

तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥ १४ ॥
 

 
[^१]
. 'गच्छतीति । अ' क. पाठः,
[^
]. 'तं जीवं ब्र' क. पाठः
[^३]. 'या क' क. पाठः
[^४]. 'त्यैनं वि' क. पाठः
[^५]. 'तिमा' क. पाठः
[^६]. 'यमभिप्राय
:. ३. 'या क' क. पाठ:. ४.
लैनं वि' क. पाठ: ५. 'तिमा' क. पाठ: ६. 'यमभिप्राय:
' क. पाठः,
[^
]. 'नभोगमनु' क.
पाठ:.
पाठः
[^
]. 'ये प्रा' क. पाठः
[^
]. 'रपञ्चतन्मात्राणां प्रलये ब्रह्मप्रलये मुक्ततामेति ब्र' क. पाठः,

[^
१०]. 'त इत्यर्थः । अ' क. पाठः, 'ते स्वे' ख. पाठ: ११ठः
[^११]
. 'ति । यदि ब्रह्मादिभोगेषु अतितरां
विरक्ततया महाप्रलयात् प्रागेव मोक्षेच्छा जायते तर्हि इत्यर्थः । पुरा खलु प्रागे' क. पाठ:. ठः
[^
१२.
]. 'थं ज' क. पाठः,
[^
१३]. 'सा स्वस्य योगलेनैव संविभिद्य ब्रह्माण्डभेदनद्वा' क,. पाठः,