This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - २
 
अग्निवासरेति । वलर्क्षपक्ष शुक्लपक्ष । अमिं वासरं वलर्क्षपक्षं च गच्छ-
न्ति अधिष्ठातृत्वेन प्राप्नुवन्तीति तथा उत्तरायणजुषा उत्तरायणषण्मासान् जुषते
अधितिष्ठतीति तथा । अग्न्याद्यभिमानिभिर्दैवतैरित्यर्थः । एतैर्देवतैः रविषदं ज्योति-
श्चक्रं प्रापितो जीवः भवत्परः भवानीश्वर एवं पर: सेव्यतया प्रधानो यस्य स
तथा । मोदवान् तत्तद्देवतातुल्यभोगानुभवेन सन्तोषातिशयवान् भूत्वा ध्रुवपदान्तं
ध्रुवलोकावधि ईयते प्राप्नोति । अत्र चेयं प्रक्रियां – अग्न्यादिदेवता ह्येनं जीवमत्र-
लिगतपुत्रिकावत् क्रमाद् ब्रह्मलोकं प्रापयन्ति । तत्र प्रथममग्निदेवता स्वेच्छया
शरीरमुत्सृज्य सूर्यरश्मिद्वारा निर्गच्छन्तं जीवमग्निलोकमार्गेण नीत्वा वासराभिमा-
निदेवताहस्तं प्रापयति । सा शुक्लपक्षाभिमानिदेवताहस्तं प्रापयति । सा चोत्तरा-
यणपण्मासाभिमानिदेवताहस्तं प्रापयति । सा संवत्सराभिमानिदेवतहस्तं प्रापयति।
सा पुनर्देवलोकमार्गेण नीत्वा वायुदेवताहस्तं प्रापयति । सा च स्वलोकमार्गेणा-
दित्यदेवताहस्तं नयति । सा च स्वमण्डलद्वारा गच्छन्तं जीवं स्वलोकमार्गेण नीत्वा
चन्द्रदेवताहस्तं नयति । सी स्वलोकमार्गेण विद्युल्लोकं प्रीपयति । ततश्च ध्रुवलो-
कान्तं गच्छतीति ॥ ११ ॥
 
३४
 
आस्थितोऽथ महरालये यदा शेषवऋदहनोष्मणाद्यते ।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२ ॥
 
90
 
आस्थित इति । अथ ध्रुवपदप्राप्त्यनन्तरं महरालये कल्पायुषां भृग्वादी-
नामालयभूते महर्लोके आस्थितैः सुखेन बसन् यदा यस्मिन् काले शेषवऋदहनो-
ष्मणा अनन्तस्य मुखात् त्रैलोक्यदाहाय निर्गतोऽग्निरूध्वशिखो वर्धते, तेन च
त्रैलोक्यं दह्यमानं निरीक्ष्य तस्योप्मणा चार्धते पीड्यते, तदा भवदुपाश्रयो भव-
न्तमश्वरमेव शरणं गतो वेधसः पदं सत्यलोकाख्यम् ईयते प्राप्नोति । भृग्वादिभिः
सह जनर्लोकं तैपोलोकं चातीत्य ब्रह्मसभां प्रविशतीत्यर्थः । अतः पुरैव बेति
 
१. 'ग्निवासरवलक्षपक्षान् ग' क. पाठ:. २. 'नतया प्रा' क. पाठ:. ३. 'णं जु' ख. पाठ:.
४. 'दे' क ख. पाठ: ५. 'या ज्ञेया अ' ख. पाठः ६. 'अहरभि' क. पाठ:.
७. 'तां सन्नि-
धाप' क. पाठ:. ८. 'चन्द्रदेवता 'स्व' क. पाठ: ९ 'नय' क. पाठः १०. 'ये मद्द' क.
पाठ: ११. 'तस्तत्र सुखेन निव' क. पाठः १२. 'दा शे' क. पाठः १३. 'प्राप्तः सन् वे '
क. पाठ:. १४. 'गत्वा तदुपर्यपि क्रमेण गच्छतीत्यर्थः ।' क. पाठः