This page has not been fully proofread.

दशकम् - ४]
 
योगसिद्धिवर्णनम् ।
 
३३
 
र्मङ्क्षु झटिति मोक्षैरसिकः सद्योमुक्त्याग्रही भवति । क्रमेण वेति यस्तु क्रममुक्त्या·
ग्रही वाँ भवतीत्यर्थः । द्विविधोऽपि सः योगवश्यं प्राणायामवशीकृतम् अनिलं प्रा
णवायुं षडाश्रयैः सुषुम्णया सुपुम्णानाडीद्वारेण उन्नयतीति, स्वपाणिना गुदं संपीड्य
मूलाधारनाभिहृदुरस्तालुमूलभ्रूमध्यरूपैः षड्भिराश्रयैः स्थानैः शनैः क्रमादधिरो
पयतीत्यर्थः ॥९॥
 
एतदन्तमुभयोरपि समानं, पुनर्निराग्रहस्य विशेषमाह -
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ १० ॥
 

 
लिङ्गेति । निराग्रहः सद्योमुक्त्यग्रही अथो अनिलं भ्रूमध्यमधिरोप्य मुहू-
तीर्घं स्थित्वानन्तरं लिङ्गदेहमपि सन्त्यजन् स्थूलशरीरं सूक्ष्मशरीरं च सम्यगपुन-
रावृत्तये त्यजन् त्वयि परे ब्रह्मात्मके लीयते मूर्धनि विभिद्य । यथा ज्योतिर्ज्योतिषि
लीयते, तथा त्वत्सायुज्यं प्राप्नोतीत्यर्थः । अन्यस्य विशेषमाह - ऊर्ध्वलोककुतुकी
तु ब्रह्मादिलोकार्नुभवकौतुकवांश्चेद् भवति, तर्हि सूर्धतः मूर्धनि निर्भिद्य तद्वारेण
करणैरिन्द्रियैः सार्धमेव पञ्चप्राणमनोबुद्धिदशेन्द्रिय समुदायात्मकलिङ्गशरीरेण सह
निरीयते* निर्गच्छति। अयमाशयः - ब्रह्मरन्ध्रान्तःस्थिताया: सुषुम्णानाड्याः सूर्य-
रश्मीनां च नित्यसम्बन्धोऽस्ति । अतो जीवस्तद्वारा ब्रह्मरन्ध्रान्तमागत्य निर्यद्भिः
सूर्यरश्मिभिः सह बहिर्निर्गच्छतीति ॥ १० ॥
 
अनन्तरमग्न्याद्यातिवाहिकदेवतातिक्रमणप्रकारमाह
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुपा च दैवतैः ।
 
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११ ॥
 
-
 
१. 'क्षे' ख. पाठः, २. 'स्यात् ।' ख. पाठ:. ३. 'स्यादित्य' ख. पाठ:.
४. 'ति ।
'लिङ्गदेहमपि सन्त्यजन् नि' ख. पाठ: ५. 'क्तिमिच्छु: अ' ख. पाठः ६. 'लस्य भ्रू' ख.
पाठ: ७. 'ध्याधिरोपणानन्तरं स्थू' न. पाठ: ८. 'क्त्वा त्व' क. पाठ:., 'जन् परे परब्रह्मात्मके
त्वयि ली' स्व. पाठः ९. 'वलोकनकौ' ख. पाठ: १०. 'धीनं भित्त्वा ख. पाठः ११.
'यात्मलि' क. पाठ:.
 
* निरीयते 'ईट् गतौ' दिवादिः ।