This page has not been fully proofread.

दशकम् - ४]
 
योगसिद्धिवर्णनम् ।
 
३३
 
र्मङ्क्षु झटिति मोक्षैष[^१]रसिकः सद्योमुक्त्याग्रही भ[^२]वति । क्रमेण वेति यस्तु क्रममुक्त्या·

ग्रही वाँवा[^३] भवतीत्यर्थः । द्विविधोऽपि सः योगवश्यं प्राणायामवशीकृतम् अनिलं प्रा
-
णवायुं षडाश्रयैः सुषुम्णया सुपुषुम्णानाडीद्वारेण उन्नयतीति, स्वपार्ष्णिना गुदं संपीड्य

मूलाधारनाभिहृदुरस्तालुमूलभ्रूमध्यरूपैः षड्भिराश्रयैः स्थानैः शनैः क्रमादधिरो
-
पयतीत्यर्थः ॥९॥
 

 
एतदन्तमुभयोरपि समानं, पुनर्निराग्रहस्य विशेषमाह -
-
 
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।

ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ १० ॥
 

 

 
लिङ्गेति[^४] । निराग्रहः सद्योमुक्त्य[^५]ग्रही अथो अनिलं[^६] भ्रूमध्य[^७]मधिरोप्य मुहू-
ती

र्ता
र्घं स्थित्वानन्तरं लिङ्गदेहमपि सन्त्यजन् स्थूलशरीरं सूक्ष्मशरीरं च सम्यगपुन-

रावृत्तये त्यज[^८]न् त्वयि परे ब्रह्मात्मके लीयते मूर्धनि विभिद्य । यथा ज्योतिर्ज्योतिषि

लीयते, तथा त्वत्सायुज्यं प्राप्नोतीत्यर्थः । अन्यस्य विशेषमाह - -ऊर्ध्वलोककुतुकी

तु ब्रह्मादिलोकार्नु[^९]भवकौतुकवांश्चेद् भवति, तर्हि सूर्धतः मूर्धनि[^१०] निर्भिद्य तद्द्वारेण

करणैरिन्द्रियैः सार्धमेव पञ्चप्राणमनोबुद्धिदशेन्द्रिय [^११]समुदायात्मकलिङ्गशरीरेण सह

निरीयते[^*] निर्गच्छति। अयमाशयः - -ब्रह्मरन्ध्रान्तःस्थिताया: सुषुम्णानाड्याः सूर्य-

रश्मीनां च नित्यसम्बन्धोऽस्ति । अतो जीवस्तद्द्वारा ब्रह्मरन्ध्रान्तमागत्य निर्यद्भिः

सूर्यरश्मिभिः सह बहिर्निर्गच्छतीति ॥ १० ॥
 

 
अनन्तरमग्न्याद्यातिवाहिकदेवतातिक्रमणप्रकारमाह
--
 
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुपाषा च दैवतैः ।
 

प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११ ॥
 
-
 

 
[^
]. 'क्षे' ख. पाठः,
[^
]. 'स्यात् ।' ख. पाठः
[^३]. 'स्यादित्य
' ख. पाठ:. ३. 'स्यादित्य' ख. पाठ:.

[^
]. 'ति ।
'लिङ्गदेहमपि सन्त्यजन् नि' ख. पाठ: ठः
[^
]. 'क्तिमिच्छु: अ' ख. पाठः
[^
]. 'लस्य भ्रू' ख.
पाठ: ठः
[^
]. 'ध्याधिरोपणानन्तरं स्थू' न. पाठ: ठः
[^
]. 'क्त्वा त्व' क. पाठ:.ठः, 'जन् परे परब्रह्मात्मके
त्वयि ली' स्व. पाठः
[^
]. 'वलोकनकौ' ख. पाठ: ठः
[^
१०]. 'धीनं भित्त्वा त' ख. पाठः
[^
११.
]. 'यात्मलि' क. पाठ:.
 

 
[^
*] निरीयते 'ईट्ङ् गतौ' दिवादिः ।