This page has not been fully proofread.

एतैर्दोषैः परिच्युतौ सत्यां पुनरपि धारणादिकमारब्धव्यम् । यदा तु चित्तमेतैर्दो-
पैर्विरहिततयाचलं ब्रह्ममात्रमवतिष्ठते, तदा निर्विकल्पकसमाधिरित्युच्यते 'यथा
दीपो निवातस्थो नेङ्गते सोपमा स्मृता' (गी. अ. ६. लो. १९) इति भगवद्वचना-
दिति ॥ ७॥
 
अथ समाधिविजये जीवन्मुक्तताप्राप्तिमाह--
 
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८ ॥
 
इत्थमिति । इत्थम्[^१] उक्तप्रकारेण धारणाध्यानसमाधीनामभ्यसनेन निर्भरम्
अतिशयेन उल्लसता आविर्भूतेन त्वत्परात्मसुखेन त्वत्स्वरूपपरब्रह्मानुभवजनितेना-
नन्देन कल्पितो निर्वृत्त उत्सवो येषां तथाभूताः सन्तो वयं मुक्तानां भक्तानां च
कुलानि समूहाः, तेषां मौलितां प्रधानतां गताः[^२] प्राप्ताः सन्त इति । अयं भावः--
यद्यपि ब्रह्मणि साक्षात्कृते सति अज्ञानतत्कार्यपूर्वसञ्चितकर्मसंशयविपर्ययादीनां बा-
धितत्वादखिलबन्धरहिता ब्रह्मनिष्ठा भवन्ति, तथापि यावत् प्रारब्धकर्म परिसमाप्यते,
तावत् पूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि च । यथेन्द्रजालमिदमिति
ज्ञानवन्तस्तदिन्द्रजालं पश्यन्तोऽपि परमार्थतो न पश्यन्ति, तद्वदेतेऽपि लोकव्यव-
हारं ब्रह्मज्ञानबाधितत्वादपरमार्थतया पश्यन्तः कञ्चित् कालं सञ्चरन्ति । रो[^३]ह जी-
वन्मुक्तावस्थोच्यत इति तादृशावस्थापन्नाः शुकनारदादयः । हे भगवन् ! वय-
मपि यदि भवत्कृपाभाजनं भवेम, तर्हि तादृशाः सन्तः सञ्चरेमेत्यर्थः ॥ ८ ॥
 
ननु ब्रह्मज्ञानानन्तरं प्रारब्धकर्मावसाने मुक्तिरित्युक्तम् । तदनुपपन्नं, श्रीना-
रदादीनां प्रारब्धकर्मनाशा[^४]द् देहपातेऽसत्यपि देहान्तरप्राप्तिश्रवणादित्याशङ्क्य विजित-
समाधीनां तादृशां यथेष्टां गतिमाह[^५] सप्तभिः--
 
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥ ९ ॥
 
स्वदिति । हे अज! त्वयीश्वरे समाधिश्चित्तैकाग्र्यं त्वत्समाधिः, तस्य वि-
जयो निवातस्थि[^६]तदीपवदनायासेन दीर्घकालमवस्थानं, तस्मिन् सति यस्तु पुन-
 
[^१]. 'मनेनोक' ख. पाठः.
[^२]. 'ता इ' क. पाठः.
[^३]. 'सा हि जी' ख. पाठः.
[^४]. 'शेन दे' ख. पाठः.
[^५]. 'ह त्वत्समाधीत्यादिस' ख. पाठः.
[^६]. 'स्थदी' ख. पाठः.