This page has not been fully proofread.

दशकम् - ४]
 
अष्टाङ्गयोगवर्णनम् ।
 
३१
 
अ. ६. श्लो. ३४) इति यथा श्रीनारदवचनं, तथेत्यर्थः । एवञ्च वयं ध्यानयोगे
ध्यानरूपे त्वत्प्राप्त्युपाये निरतास्तत्परोस्त्वदाश्रयास्त्वद्भक्ता भवेमेति शेषः ॥ ५॥
 
अथ समाधिमाशास्ते .
 
-
 
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् ।
सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमाय ! तेऽवभासते ॥ ६ ॥
 
ध्यायतामिति । अयि भगवन् ! ते तव ईदृशीं सकलमूर्ति ध्यायताम्
उन्मिषन्त्या अभिव्यक्तया मधुरतया तव वपुस्सौभाग्येन हृत आत्मा मनो येषां ते
उन्मिषन्मधुरताहृतात्मानः, तेषां सान्द्रमोदरसरूपं सान्द्रानन्दैकरसस्वरूपं ते रूपं स्व
रूपभूतं ब्रह्म आन्तरम् अन्तरिन्द्रियग्राह्यं ज्ञातृज्ञानज्ञेयरूपेण भेदेनाभेदेन चावभासते।
अनेन सविकल्पकसमाधिरुक्तः । तत्र चैवमेव भानप्रकारः । तदुक्तमाचार्येण 'तदा
मृण्मयगजादिभानेऽपि मृद्भानवद् द्वैतभानेऽप्यद्वितीयं वस्तु भासत' इति ॥ ६ ॥
 
अथ निर्विकल्पकसमाधेः स्वरूपं दर्शयति -
 
-
 
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ! ।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ ७॥
 
११
 
तदिति । तस्य तादृशस्य ब्रह्मणः समास्वदनं सम्यगनुभवः, तद्रूपिणीं
स्थितिं ज्ञातृज्ञेययोरपि ज्ञानरूपेणावस्थानं त्वत्समाधिं त्वद्विषयं निर्विकल्पकसमाधि-
मित्यर्थः। अत्र चायमेव भानप्रकार: । तदुक्तं 'तदा जलाकाराकारितलवणानवभा-
सेन जलमात्रावभासवदद्वितीयवस्तुमात्रमवभासत' इति । हे विश्वनायक ! जगन्नाथ !
तादृशं त्वत्समाधिमाश्रिता वयं पुनरतोऽस्मात् स्थानात् परिच्युतौ सत्यां भ्रंशे सति
धारणादिकं पुनैश्चारभेमहीति । अयमाशयः - निर्विकल्पकसमाधेर्लयविक्षेपकषायर
सास्वादरूपाश्चत्वारो बिघ्नाः संभवन्ति । तत्र लयो निद्रा । विक्षेपोऽन्यावलम्बनम् ।
कषायो विषयवासनया स्तव्धैभावः । रसास्वादः सविकल्पकानन्दास्वादनम् ।
 
१. 'ञ्चेद् व' क. पाठ:.
४. 'तादृशानां सा' ख. पाठः.
७. 'यभेदेन च भासत इत्यर्थः ।
फ: - तदा' ख. पाठ:.
११. ' से ज' क. पाठः,
 
२. 'राः सन्तस्त्व' क. पाठ:.
५. 'मिति अ' क. पाठ:.
अनेन च स' क. पाठ:.
९. 'निर्वि' क. पाठ:.
१२. 'नरप्यार' क. पाठः.
 
१०.
 
३. 'धिं दर्शयति' क. पाठ:
६. 'ह्यतया ज्ञा' क. पाठः.
८. 'वं भानप्रकार आचार्येणो
'र उक्तः - तदा' ख. पाठः.
१३. 'ब्धी' क. पाठ:.