This page has not been fully proofread.

दशकम् - ४]
 
अष्टाङ्गयोगवर्णनम् ।
 
३१
 
अ. ६. श्लो. ३४) इति यथा श्रीनारदवचनं, तथेत्यर्थः । एवञ्च[^१] वयं ध्यानयोगे

ध्यानरूपे त्वत्प्राप्त्युपाये निरतास्तत्परोरा[^२]स्त्वदाश्रयास्त्वद्भक्ता भवेमेति शेषः ॥ ५॥
 

 
अथ समाधि[^३]माशास्ते .
 
-
 
-
 
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् ।

सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमाय ! तेऽवभासते ॥ ६ ॥
 

 
ध्यायतामिति । अयि भगवन् ! ते तव ईदृशीं सकलमूर्तितिं ध्यायताम्

उन्मिषन्त्या अभिव्यक्तया मधुरतया तव वपुस्सौभाग्येन हृत आत्मा मनो येषां ते
[^४]
उन्मिषन्मधुरताहृतात्मानः, तेषां सान्द्रमोदरसरूपं सान्द्रानन्दैकरसस्वरूपं ते रूपं स्व
-
रूपभूतं ब्रह्म आन्तरम्[^५] अन्तरिन्द्रियग्रा[^६]ह्यं ज्ञातृज्ञानज्ञेय[^७]रूपेण भेदेनाभेदेन चावभासते।

अनेन सविकल्पकसमाधिरुक्तः । तत्र चैव[^८]मेव भानप्रकारः । तदुक्तमाचार्येण 'तदा

मृण्मयगजादिभानेऽपि मृद्भानवद् द्वैतभानेऽप्यद्वितीयं वस्तु भासत' इति ॥ ६ ॥
 

 
[^९]थ निर्विकल्पकसमाधेः स्वरूपं दर्शयति -
 
-
 

 
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ! ।

आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ ७॥
 
११
 

 
तदिति । तस्य तादृशस्य ब्रह्मणः समास्वदनं सम्यगनुभवः, तद्रूपिणीं

स्थितिं ज्ञातृज्ञेययोरपि ज्ञानरूपेणावस्थानं त्वत्समाधिं त्वद्विषयं निर्विकल्पकसमाधि-

मित्यर्थः। अत्र चायमेव भानप्रका[^१०]र: । तदुक्तं 'तदा जलाकाराकारितलवणानवभा-

से[^११]न जलमात्रावभासवदद्वितीयवस्तुमात्रमवभासत' इति । हे विश्वनायक ! जगन्नाथ !

तादृशं त्वत्समाधिमाश्रिता वयं पुनरतोऽस्मात् स्थानात् परिच्युतौ सत्यां भ्रंशे सति

धारणादिकं पुनैन[^१२]श्चारभेमहीति । अयमाशयः - -निर्विकल्पकसमाधेर्लयविक्षेपकषायर
-
सास्वादरूपाश्चत्वारो बिघ्नाः संभवन्ति । तत्र लयो निद्रा । विक्षेपोऽन्यावलम्बनम् ।

कषायो विषयवासनया स्तव्धैब्ध[^१३]भावः । रसास्वादः सविकल्पकानन्दास्वादनम् ।
 

 
[^
]. 'ञ्चेद् व' क. पाठ:.
ठः.
[^२]. 'राः सन्तस्त्व' क. पाठः.
[^३]. 'धिं दर्शयति' क. पाठः.
[^
]. 'तादृशानां सा' ख. पाठः.

[^५]. 'मिति अ' क. पाठः.
[^६]. 'ह्यतया ज्ञा' क. पाठः.
[^
]. 'यभेदेन च भासत इत्यर्थः ।
फ: - तदा' ख. पाठ:.
११. ' से ज' क. पाठः,
 
२. 'राः सन्तस्त्व' क. पाठ:.
५. 'मिति अ' क. पाठ:.
अनेन च स' क. पाठ:.
९. 'निर्वि' क. पाठ:.
१२. 'नरप्यार' क. पा
ठः.
 
१०.
 
३. 'धिं दर्शयति' क. पाठ:
६. 'ह्यतया ज्ञा' क. पाठः.

[^
]. 'वं भानप्रकार आचार्येणो
क्त:--तदा' ख. पाठः.
[^९]. 'निर्वि' क. पाठः.
[^१०].
'र उक्तः - -तदा' ख. पाठः.

[^११]. ' से ज' क. पाठः.
[^१२]. 'नरप्यार' क. पाठः.
[^
१३]. 'ब्धी' क. पाठ:.
 
ठः.