This page has not been fully proofread.

३०
 
नारायणीये
 
[ स्कन्धः - २
 
मभियम्य पूरकरेचककुम्भकैः वायुंजयं कृत्वा निर्गतानि मलानि रागादीनि येभ्यस्ते
निर्मलाः । तदुक्तं 'प्राणायामैदेहेद् दोषान् धारणाभिश्च किल्विपान्' (श्रीभा. स्क.
३. अ. २८. श्लो. ११) इति । अथ अनन्तरम् इन्द्रियाणि विषयादपहृत्येति
प्रत्याहारै उक्तः । भवदुपासने धारणायुत्तरभूमिकायाम् उन्मुखा आरुरुक्षवः सन्तः
आस्महे पूर्वभूमिकामेवाभ्यस्यन्तो भवत्कृपां प्रतिपालयाम इत्यर्थः ॥ ३ ॥
 
क्रमप्राप्तां धारणामाह
 
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तरार्द्रताहेम भवदङ्घ्रिचिन्तकाः ॥ ४ ॥
 
-
 
अस्फुटेति। अस्फुटे अस्पष्टे आपाततः प्रतीते ते तव वपुषि प्रयत्नतो मु-
हुर्मुहुर्धिषणां बुद्धिं धारयेम । अत्र बुद्धेर्निद्रादोपे सति तदुद्वोधने प्रयासः प्रयत्नः ।
तथान्यविषयलम्बने सति तच्छमनं कर्तव्यमिति मुहुर्मुहु॑रित्युक्तम् । एवं धारणां
कैलयाम इति यत् तेन धारणॉकलनेन भक्तिरेव रसः तं तदनुभावमन्तरार्द्रतां
चोद्वहेम प्राप्नुयाम । ततो वयं भवदङ्घ्रिचिन्तकाः परमभागवतश्च भवेमेति॥४॥
 
ध्यानमाह
 
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ५ ॥
 
-
 
११
 
विस्फुटेति । विस्फुटा विशेषेण स्पष्टाः श्रीमत्पादादिकेशान्ता अवयवभेदा
यस्मिंस्तद् विस्फुटावयवभेदं तादृशं सुन्दरं स्फुटप्रतीयमानसौन्दर्य च त्वद्वपुः
सुचिरशीलना दीर्घकालं धारणाध्यानयोरभ्यासः तद्वशाद् अश्रमम् अनायासेन
मनसि चिन्तयामहे । 'आहूत इव मे शीघ्रं दर्शनं याति चेतसि ' (श्रीभा. स्क. १.
 
१. 'युं जिरवा' ख. पाट: २. 'स्तादृशाः सन्तः । त' ख. पाठ:. ३. 'रो दर्शितः ।' ख. पाठः.
४. 'यावलम्बनेऽपि स' ख. पाठ: ५. 'हुर्योत्यते । ए' क. पाठ: ६. 'कुर्यामेति' क. पाठ :.
७. 'णानुष्ठाने' क. पाठः. ८. 'ता: सन्तो जन्म (भ) [ज: स्यामे' ख. पाठ:. ९. 'षत: स्प' ख.
पाठ: १०. 'दसु' क. पाठः, ११. 'च किं तत् त्व' क. पाठः.