This page has not been fully proofread.

अथ द्वितीयस्कन्धपरिच्छेदः ।
त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् ।
द्वितीयोक्तं हरे रूपमुपास्यमुपवर्ण्यते ॥
 
अथ द्वितीयस्कन्धाश्रयणेन भगवन्मूर्तिभेदतदुपासनतत्कलादि प्रपञ्चयिष्यन्
प्रथमं स्वस्य तस्मिन्नविकारायारोग्यं प्रार्थयते.
 
कल्यतां मम कुरुष्व तावती कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥ १ ॥
 
कल्यतामिति । मम तावतीं कल्यताम् आरोग्यं कुरुष्व, यया यावत्या
कल्यतया भवदुपासनं कल्यते अनुष्ठातुं शक्यते । स्पष्टम् इदं निश्चितम् । यद्यह-
मरोगः स्यां, तर्हि आश्वष्टविधन्य यमनियमाद्यष्टाङ्गस्य योगस्य चर्यया अनुष्ठानेन
पुष्ट्या सम्पूर्णाङ्गया । सम्प्रति मदकल्यतैव योगाङ्गवैकल्ये कारणमिति भावः ।
तव तुष्टिं प्रसादम् आनुयाम् लभेयं ॥ १ ॥
 
इदानीं यथाशक्ति करोमीत्याह -
 
-
 
ब्रह्मचर्यदृढतादिभिर्यमैराप्नुवादिनियमैच पाविताः ।
 
कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २ ॥
 
ब्रह्मचर्येति । ब्रह्मचर्यस्य दृढता नाम स्त्रीणां दर्शनॅस्पर्शनादिवर्जनम् ।
आदिशब्देनाहिंसासत्यास्तेयादि गृह्यते । आप्लवः स्नानम् । अत्रादिशब्देन मनः-
शुद्धिजपतपोहोमादि गृह्यते । एतैर्यमैर्नियमैश्च पाविताः शुद्धाः सन्तैः भवान् परः
प्रधानो येषां ते भवत्पराः अमी वयं पङ्कजमाद्यं प्राथमिकं यस्य तत् पङ्कजाद्यं पद्मा-
सनं स्वस्तिकासनमन्यद् वा सुखासनं यथासुखमासनं दृढं कुर्महे ॥२॥
 
आसनदा सति प्राणायामं कुर्म इत्याह
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहत्यास्महे भवदुपासनोन्मुखाः ॥ ३ ॥
 
तारमिति । तारं प्रणवम् अन्तः हृदि सन्ततं तैलधारावद् घण्टानादवच्चा-
विच्छिन्नमनुचिन्त्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहं कृत्वा प्राणवायु-
१. 'येति ॥' क. पाठ: २. 'नादि' ख. पाठः, ३. 'न्तः भवत्पराः भ' ख. पाठः ४.
'नं कु' क. पाठ:.