This page has not been fully proofread.

२८
 
नारायणीये
 
[स्कन्धः- १
 
एवं स्तुतिमुखेन प्रार्थनामुखेन च भक्तेर्भक्तानां च स्वरूपं वर्णयन् प्रकरण-
मुपसंहरति —
 
-
 
किमुक्तैर्भूयोभिस्तव हि करुणा यावदिया-
दहं तावद् देव ! प्रहितविविधार्तमलपितः ।
पुरः क्लृप्ते पादे वरद ! तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिपेवा विरचयन् ॥ १० ॥
 
किमिति । भूयोभिरुक्तैर्बहुभिः प्रलापैः किं फलं, तव करुणाभावे न कि-
मपीत्यर्थः। हे देव! भक्तानां हृयुद्धोतमान ! यावद् यस्मिन् काले तव हि ईश्वर-
स्यैव करुणा कृपा उदियात् प्रादुर्भवति, तावत् तावत्कालपर्यन्तम् अहं प्रहितं त्यक्तं
विविधम् उक्तप्रकारेण बहुविधम् आर्तानां मलपितं निरर्थकं वचनं येन स प्रहित-
विविधार्तप्रलपितः तथाभूतः सन् पुरः पुरोभागे क्लृप्ते सङ्कल्पिते अथवा प्रतिमास-
म्बन्धिनि तब श्रीपादे यथाशक्ति यावदारोग्यं व्यक्तं निश्चिनोमीति यावत् । नति-
र्नमस्कारः नुतिः स्तुतिः निषेवा पूजा, ताः विरचयन् विशेषेण भक्तिश्रद्धावृत्तिस-
हितं कुर्वन् दिवसान् नेप्यामि, मम प्रलापेनं केवलेन त्वत्कृपा नोदयमासादयति ।
किञ्च, वृथा कालक्षेपः स्याद् अतो यथाशक्ति त्वत्सेवां कुर्वन् त्वत्कृपां च प्रति-
पालयन् दिवसान् नयामीत्यर्थः । एवं पञ्चदशभिः श्लोकैः परीक्षिदाख्यानसिद्धं
भक्तेर्भक्तानां च स्वरूपं वर्णितम् ॥ १० ॥
 
,
 
इति भक्तस्वरूपवर्णनं भक्तिप्रार्थना च तृतीयं दशकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियायां
 
प्रथमस्कन्धपरिच्छेदः ।
 
१. 'न त्व' ख. पाठ:.
 
आदितः लोकसङ्ख्या ३०.
 
२. 'पा' क. पाठ:.