This page has not been fully proofread.

२८
 
नारायणीये
 
[स्कन्धः- १
 
एवं स्तुतिमुखेन प्रार्थनामुखेन च भक्तेर्भक्तानां च स्वरूपं वर्णयन् प्रकरण-

मुपसंहरति
 
-
 
--
 
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया-

दहं तावद् देव ! प्रहितविविधार्तप्रलपितः ।

पुरः क्लृकॢप्ते पादे वरद ! तव नेष्यामि दिवसान्

यथाशक्ति व्यक्तं नतिनुतिनि<flag>पे</flag>वा विरचयन् ॥ १० ॥
 

 
किमिति । भूयोभिरुक्तैर्बहुभिः प्रलापैः किं फलं, तव करुणाभावे न कि-

मपीत्यर्थः। हे देव! भक्तानां हृद्युद्धोयोतमान ! यावद् यस्मिन् काले तव हि ईश्वर-

स्यैव करुणा कृपा उदियात् प्रादुर्भवति, तावत् तावत्कालपर्यन्तम् अहं प्रहितं त्यक्तं

विविधम् उक्तप्रकारेण बहुविधम् आर्तानां प्रलपितं निरर्थकं वचनं येन स प्रहित-

विविधार्तप्रलपितः तथाभूतः सन् पुरः पुरोभागे क्लृकॢप्ते सङ्कल्पिते अथवा प्रतिमास-

म्बन्धिनि त श्रीपादे यथाशक्ति यावदारोग्यं व्यक्तं निश्चिनोमीति यावत् । नति-

र्नमस्कारः नुतिः स्तुतिः निषेवा पूजा, ताः विरचयन् विशेषेण भक्तिश्रद्धावृत्तिस-

हितं कुर्वन् दिवसान् नेप्ष्यामि, मम प्रलापेनंन[^१] केवलेन त्वत्कृपा नोदयमासा[^२]दयति ।

किञ्च, वृथा कालक्षेपः स्याद्, अतो यथाशक्ति त्वत्सेवां कुर्वन् त्वत्कृपां च प्रति-

पालयन् दिवसान् नयामीत्यर्थः । एवं पञ्चदशभिः श्लोकैः परीक्षिदाख्यानसिद्धं

भक्तेर्भक्तानां च स्वरूपं वर्णितम् ॥ १० ॥
 
,
 

 
इति भक्तस्वरूपवर्णनं भक्तिप्रार्थना च तृतीयं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां
 

 
भक्तप्रियायां
 

 
प्रथमस्कन्धपरिच्छेदः ।
 
१. 'न त्व' ख. पाठ:.
 

 
आदितः श्लोकसङ्ख्या ३०.
 

 
[^१]
. 'पान त्व' . पाठ:.
 

[^२]. 'पा' क. पाठ:.