2023-03-07 09:50:19 by Padmavati
This page has not been fully proofread.
भक्तिप्राथर्ना ।
२७
न्मूलयदेव मम हृदि त्वद्
उदञ्चद्रोमाञ्चालङ्कृतशरीरः गलितबहुहर्षाश्रुनिवहो बा
दुरुपशमाः शमयितुमशक्या याः पीडा आध्यात्मिकाद्याः, तत्कर्तृकान् परिभवान्
उपद्रवान् यथा सम्यग् विस्मर्यासं विस्मरणं कुर्याम् । अथवा यथा विस्मर्यासं तथा
हृदि त्वद्रूपमुदियादिति सम्बन्धः ॥ ८ ॥
अपिच-
मरुद्गेहाधीश ! त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परित
अकीर्तिस्ते मा भूद् वरद ! गदभारं प्रशमयन्
भवद्भक्तोत्तंसं झटिति कुरु मां कंसदमन ! ॥ ९ ॥
मरुदिति । मरुद्गेहाधीश ! हे श्रीगुरुवायुपुरनाथ ! त्वयीश्वरे पराञ्चोऽपि
विमु
च्यते । भवतीश्वरे स्नेहोऽस्यास्तीति भवत्स्नेही सोऽहं यः
भूततया स्मरणादिष्वसमर्थः, सोऽहं सुबहु अधिकं परितप्ये परितापमनुभवामि च
किमिदमीश्वरेऽपि वैषम्यमिव । न च तेऽपि जन्मान्तरे[^२] भवन्तं सेवितवन्तः,
अतः सुखिनो भवन्ति, कुतश्चित्तु कारणात् सम्प्रति त्वयि पराञ्चो जाता इति
शक्यं शङ्कितुं, भवत्सेवकानामप्रच्युतिप्रसिद्धिभङ्गप्रसङ्गात् । किञ्च, अहं दुःखिष्वन्त-
र्भवाणि, नात्र खेदः । तव त्वीश्वरस्यापि जीवे[^३]षु वैषम्यमस्तीति दुष्कीर्तिः स्यात् ।
ततश्च जीवानां सेवामान्द्यमपि स्यादित्येव मम खेद इत्याह
हे वरद! कंसदमन! इत्याभ्यां सम्बोधनाभ्यां दुष्टनिग्रहशिष्टाभीष्टदानाभ्यामेवे-
श्वरस्य शरीरोपादानमिति सत्कीर्ति
र्दुष्कीर्तिरपि मा भूत् । तत्रोपायमाह
सोढुमशक्यत्वात्, तं प्रशमयन् मां झटिति अकीर्तिव्याप्तेः पूर्वमेवातिशीघ्रं
भवद्भक्तानामुत्तंसमलङ्कारभूतं प्रधानं कुरु । एवंच त्वं चाहं च कृतार्
इत्यर्थः ॥ ९ ॥
"
[^१]. 'भगव' क. पाठ:.
क. पाठ:.
[^२]. 'रेऽपि भ' क. पाठः
[^३]. 'वि' क. पाठ..
[^४]. 'स्वः ॥'