This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १
 
चिदानन्दाद्वैतब्रह्मैक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः
किं प्रार्थ्ये, न किमपीत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरू-
पाया भक्तेः अपरं ज्ञानादि कि प्रार्थ्य, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥
 
तस्यामनधिकारमनुसन्दधानस्तत्साधन-
२६
 
एवं प्रेमलक्षणां भक्ति स्तुत्वा स्वस्य
रूपां क्रियात्मिकां भक्ति प्रार्थयते
 
विध्य क्लेशान् ये कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रमा सौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ७॥
 
विधूयेति । क्लेशान् रोगान् बाह्यानाभ्यन्तरान् वा विधूय मे चरणयोर्युग्मं
भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रद-
क्षिणादेरशक्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन्
धृतरसं कुरु । नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु ।
अथ ते तव श्रीपादेऽचिंतायास्तुलस्याः परिघ्राणे घ्राणं घ्राणेन्द्रियं धृतरसं कुरु ।
श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥
 
अनन्तरं स्मरणं प्रार्थयते-
प्रभूताधिव्याधिमसभचलिते मामकहृदि
त्वदीयं तद् रूपं परमरसचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षानिवहो
 
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ८ ॥
 
प्रभूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्बाह्यैश्च प्रसभं बलात्
चलिते शरीरादियोगक्षेमैकव्याप्टते मामकहृदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद्
——' (दशकं १. श्लो. ३) इत्यारभ्य त्रयोदशभिः श्लोकैर्वणितं परमरस चिद्रूपं परम-
रसः परमानन्दश्चासौ चिद् ज्ञानं च तन्मयं रूपमुदियात् । यथा तरणिमण्डलमु-
१. 'दा' ख. पाठः २. 'घ्राणे' क. पाठ:. ३. 'शश्लो' ख. पाठः.