This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १
 
चिदानन्दाद्वैतब्रह्मैक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः

किं प्रार्थ्येयं, न किमपीत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरू-

पाया भक्तेः अपरं ज्ञानादि किकिं प्रार्थ्यं, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥
 

 
एवं प्रेमलक्षणां भक्तिं स्तुत्वा स्वस्य
तस्यामनधिकारमनुसन्दधानस्तत्साधन-
२६
 
एवं प्रेमलक्षणां भक्ति स्तुत्वा स्वस्य

रूपां क्रियात्मिकां भक्तितिं प्रार्थयते
 
--
 
विध्धूय क्लेशान् येमे कुरु चरणयुग्मं धृतरसं

भवत्क्षेत्रमा सौप्राप्तौ करमपि च ते पूजनविधौ ।

भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-

परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ७॥
 

 
विधूयेति । क्लेशान् रोगान् बाह्यानाभ्यन्तरान् वा विधूय मे चरणयोर्युग्मं

भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रद-

क्षिणादेरशक्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन्

धृतरसं कुरु । नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु ।

अथ ते तव श्रीपादे[^१]चिंर्चितायास्तुलस्याः परिघ्राणे घ्रा[^२]णं घ्राणेन्द्रियं धृतरसं कुरु ।

श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥
 

 
अनन्तरं स्मरणं प्रार्थयते-
-
 
प्रभूताधिव्याधिप्रसभचलिते मामकहृदि

त्वदीयं तद् रूपं परमरसचिद्रूपमुदियात् ।

उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
 

यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ८ ॥
 

 
प्रभूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्बाह्यैश्च प्रसभं बलात्

चलिते शरीरादियोगक्षेमैकव्याप्टपृते मामकहृदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद्
——

--
' (दशकं १. श्लो. ३) इत्यारभ्य त्रयोदश[^३]भिः श्लोकैर्वणितं परमरस चिद्रूपं परम-

रसः परमानन्दश्चासौ चिद् ज्ञानं च, तन्मयं रूपमुदियात् । यथा तरणिमण्डलमु-

 
[^
]. 'दा' ख. पाठः .
[^
]. 'घ्राणे' क. पाठ:.
[^
]. 'शश्लो' ख. पाठः.