This page has not been fully proofread.

२४
 
नारायणीये
 
[स्कन्धः -- १
 
विदधते कुर्वन्ति । अथवा सुखगतिः ब्रह्मानन्दप्राप्तिः, तां न विदधते । अस्मिल्लो-
के त्वत्कृपयैव त्वद्भक्ता भूत्वा सञ्चरन्तो जना बहवः श्रूयन्ते । अयि विष्णो!
मय्यपि तादृशीं कृपां कुर्विति भावः ॥ ३ ॥
 
के ते जना इत्यत आह
 
-
 
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश ! स्वैरं सततपरिनिर्भातपरचित्-
सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ४ ॥
 
मुनीति । श्रीनारदो मुखमादिर्येषां ते मुनिप्रौढाः मुनिश्रेष्ठाः जगति रूढाः
प्रसिद्धाः खलु । किन्तु गूढात्मगतयः गूढोऽस्मदादिभिरशक्यदर्शन आत्मा गतिश्च
येषां, ते तथा । अँथवा आत्मगतिर्मनोगतिः देवैरप्यविदितनिग्रहानुग्रहाद्यभिप्रायवि-
शेषाः । अथवा आत्मनो गतिर्ज्ञानम् । भवत्पादाम्भोजस्मरणेन विरुजो विगतस-
कलपीडाः, ते खलु जगति स्वैरं चरन्ति । कथमित्यत आह - सततेति । सततं
सर्वदैव परिनिर्भातम् अनुभवपदेवीमारूढं परचित्सदानन्दं सच्चिदानन्दं परं ब्रह्म,
तदेवोपाधिलयादद्वैतं, तस्य प्रसरे संप्लवे परिमग्नाः तदेकीभूताः सन्तः सञ्चरन्ति ।
हे ईश ! अतः परं किं तेषां प्रार्थनीयमवशिष्टम् । तद्वन्मामप्यनुगृह्णीष्वेति भावः ॥
 
ननु श्रीनारदादयो मत्कृपया ज्ञाननिष्ठाः सन्तो विधूतक्केशा: स्वैरं चरन्तीति
ज्ञानमेव प्रार्थ्यताम् । किमज्ञानजनितक्लेशनिरसने संशयितया भक्त्येत्याशङ्कां परिहरन्
भक्ति प्रार्थयते--
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ५ ॥
 
भवद्भक्तिरिति । म स्फीता भवद्भक्तिर्भवतु । सैव ममाशेषक्लेशौघं प्रशमये-
२. 'श्रेष्ठा:' क. पाठः, ३. 'यद्रा' क. पाठः ४. 'त्मग'
 
'मिति भा' क. पाठः, ७. 'शाः सञ्च' क. पाठः,
 
१. 'त इत्यर्थः । अ' क. पाठ:.
क. पाठ: ५. 'दमा' क. पाठः, ६.