This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १२
 
मञ्जीरमिति । भ्रान्तिरूपेऽब्धौ मंज्जतां प्रणतजनानाममृतार्थिनां मनो-
रूपस्य मन्दरस्य उद्धारे कूर्मम् । सन्तापस्य ध्वान्तस्य अज्ञानस्य च हन्त्रीम् ॥ ९॥
 
योगन्द्रिाणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
भक्तानां कामवर्षयुतरुकिसलयं नाथ! ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो !
हवा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १० ॥
 
योगीन्द्राणामिति । योगीन्द्राणां ध्यातॄणां त्वदङ्गेषु मध्येऽधिकसुमधुरम् ।
मुक्तिभाजां तु निवास आश्रयः । परमानन्दसन्दोहलक्ष्मीं मोक्षम् ॥ १० ॥
 
एवं स्तुतिमुपसंहृत्य तत्र वैगुण्यादिसम्भवमाशङ्कय स्तोत्रस्य साद्गुण्यकरणा-
येश्वरे समर्पयन् वक्तृश्रोतॄणां पठनश्रवणफलमाशास्ते-
अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ ! क्षमेथाः
स्तोत्रं चैतत् सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
स्फीतं लीलावतारैंरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ ११ ॥
 
अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वाद् नारायणेन प्रोक्त-
त्वाच्च । ननु विहितमबिहितं वेदं स्तोत्रं त्वत्प्रसादाय भूयादिति समर्प्यत इति चेत्,
श्रुातीवीहतमेबेत्याह—श्रुतिप्विति । जनुषा अवतारैर्भगवतः स्तुत्यतया वर्णनं
विधिर्विद्यते, तेनं स्फीतं व्याप्तम् अथवा श्रुतिषु या जनुषा स्तुत्यता,
तस्याः 'हे स्तोतारः' (द. ९९. लो. ३) इत्यादिशब्दान्तरेण वर्णनेन लीलाव
 
7
 
१. 'नेदं लीलावतारैः स्फी' क. ग, पाठ..
 
२. 'तं कृतम, अ' क. ग, पाठः,