This page has been fully proofread once and needs a second look.

मञ्जीरमिति । भ्रान्तिरूपेऽब्धौ मज्जतां प्रणतजनानाममृतार्थिनां मनो-
रूपस्य मन्दरस्य उद्धारे कूर्मम् । सन्तापस्य ध्वान्तस्य अज्ञानस्य च हन्त्रीम् ॥ ९॥
 
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
भक्तानां कामवर्षद्युतरुकिसलयं नाथ! ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो !
हृत्वा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १० ॥
 
योगीन्द्राणामिति । योगीन्द्राणां ध्यातॄणां त्वदङ्गेषु मध्येऽधिकसुमधुरम् ।
मुक्तिभाजां तु निवास आश्रयः । परमानन्दसन्दोहलक्ष्मीं मोक्षम् ॥ १० ॥
 
एवं स्तुतिमुपसंहृत्य तत्र वैगुण्यादिसम्भवमाशङ्क्य स्तोत्रस्य साद्गुण्यकरणा-
येश्वरे समर्पयन् वक्तृश्रोतॄणां पठनश्रवणफलमाशास्ते--
 
अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ ! क्षमेथाः
स्तोत्रं चैतत् सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ ११ ॥
 
अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वाद् नारायणेन प्रोक्त-
त्वाच्च । ननु विहितमविहितं वेदं स्तोत्रं त्वत्प्रसादाय भूयादिति समर्प्यत इति चेत्,
श्रुतिविहितमेवेत्याह--श्रुतिष्विति । जनुषा अवतारैर्भगवतः स्तुत्यतया वर्णनं
विधिर्विद्यते, तेन[^१] स्फीतं व्याप्त[^२]म्, अथवा श्रुतिषु या जनुषा स्तुत्यता,
तस्याः 'हे स्तोतारः' (द. ९९. लो. ३) इत्यादिशब्दान्तरेण वर्णनेन लीलाव-
 
[^१]. 'नेदं लीलावतारैः स्फी' क. ग. पाठः
[^२]. 'तं कृतम, अ' क. ग. पाठः