This page has not been fully proofread.

दशकम् - १०० ]
 
केशादिपादवर्णनम् ।
 
अङ्गे पञ्चाङ्गरागैरतिशय विकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं
 
कृशां बिभ्रतं मध्यवल्लीम् ।
पीतचेलं दधानं
 
ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम् ॥ ७ ॥
 
-
 
अङ्ग इति । पञ्चाङ्गरागैः हरिचन्दनगोरोचनादिभिः अतिशयेन विकसता
व्याप्तेन सौरभेणाकृष्टा लोका येन स तथा । लीनानेकत्रिलोकीम् अन्तर्गतानेक-
· ब्रह्माण्डामपि कृशामिति । अयमर्थः - यद्यपीदमपि ब्रह्माण्डं श्रीकृष्णोदरस्थं,
तथापि एतद्ब्रह्माण्डान्तस्थानां तदानीन्तनानां स्वमूर्तेरिदन्तया प्रदर्शनं भगवतो
योगश्चयवैभवेन । एवञ्च मध्यवल्ल्याः कृशत्वापादनं नास्यै किञ्चिद् भार इति ।
शक्राश्मेति । भगवन्मूर्तेरिन्द्रनीलश्यामत्वात् पीताम्बरस्य कनकनिभत्वाच सञ्जा-
तपरभागमिति भावः । दीप्ताभिः रश्मिभिः मणिदीप्तिभिः स्फुटया प्रकाशमा-
नया ॥ ७ ॥
 
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया
विश्वक्षोभं विशङ्कय ध्रुवमनिशमुभौ पीतचेलावृताड़ौ ।
आनम्राणां पुरस्तान्न्यसनतमस्तार्थपाली समुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्गे निषेवे ॥ ८ ॥
 
ऊरू इति । विश्वक्षोभं लोकोत्तररामणीयकत्वेन द्रष्टृजनपारवश्यं विशङ्कय ।
समस्तार्थपालीनां सकलपुरुषार्थसार्थानां यः समुद्रः सम्पुटकः तस्यच्छाया
शोभेव शोभा यस्य ॥ ८ ॥
 
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं
पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।
उत्सुङ्गाताम्रराजन्नख रहिमकरज्योत्स्नया चाश्रितानां
सन्तापध्वान्तहवीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥
 
१. 'र्येण । ए' क. ग. पाठः, २. 'स्यातिभा' क. ग. पाठः,