This page has been fully proofread once and needs a second look.

दशकम् - १०० ]
 
केशादिपादवर्णनम् ।
 
अङ्गे पञ्चाङ्गरागैरतिशय विकसत्सौरभाकृष्टलोकं

लीनानेकत्रिलोकीविततिमपि
कृशां बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं
 
कृशां बिभ्रतं मध्यवल्लीम् ।
पीतचेलं दधानं
 

ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम् ॥ ७ ॥
 
-
 

 
अङ्ग इति । पञ्चाङ्गरागैः हरिचन्दनगोरोचनादिभिः अतिशयेन विकसता

व्याप्तेन सौरभेणाकृष्टा लोका येन स तथा । लीनानेकत्रिलोकीम् अन्तर्गतानेक-
·

ब्रह्माण्डामपि कृशामिति । अयमर्थः - -यद्यपीदमपि ब्रह्माण्डं श्रीकृष्णोदरस्थं,

तथापि एतद्ब्रह्माण्डान्तस्थानां तदानीन्तनानां स्वमूर्तेरिदन्तया प्रदर्शनं भगवतो

योगश्चगैश्वर्यवैभवेन । एवञ्च मध्यवल्ल्याः कृशत्वापादनं नास्यैय[^२] किञ्चिद् भार इति ।

शक्राश्मेति । भगवन्मूर्तेरिन्द्रनीलश्यामत्वात् पीताम्बरस्य कनकनिभत्वाच्च सञ्जा-

तपरभागमिति भावः । दीप्ताभिः रश्मिभिः मणिदीप्तिभिः स्फुटया प्रकाशमा-

नया ॥ ७ ॥
 

 
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया

विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताड़ौ ।
ङ्गौ।
आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपाली समुद्ग-

च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्गेघे निषेवे ॥ ८ ॥
 

 
ऊरू इति । विश्वक्षोभं लोकोत्तररामणीयकत्वेन द्रष्टृजनपारवश्यं विशङ्कय ।
क्य ।
समस्तार्थपालीनां सकलपुरुषार्थसार्थानां यः समुद्रःगः सम्पुटकः, तस्यच्छाया

शोभेव शोभा यस्य ॥ ८ ॥
 

 
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं

पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।

उत्सुतुङ्गाताम्रराजन्नख रहिमकरज्योत्स्नया चाश्रितानां

सन्तापध्वान्तहवीं<flag>न्त्रीं</flag> ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥
 

 
१. 'र्येण । ए' क. ग. पाठः,
२. 'स्यातिभा' क. ग. पाठः,