2023-02-16 08:52:52 by ambuda-bot
This page has not been fully proofread.
ratnojjvala?
३७२
नारायणीये
हृद्यमिति । अनाथे अशरणे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
व्यालोलत्कर्णपाशाश्चितमकरमणीकुण्डलद्वन्द्वीप्रम्
उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः-
प्रीतिप्रस्यन्दिमन्दस्मितैशिशिरतरं वऋमुद्भासतां मे ॥ ४ ॥
।
[स्कन्धः- १२
उत्तुङ्गेति । हरिमणिमुकुरवद् इन्द्रनीलमणिमयदर्पणवत् प्रोल्लसन्त्यां
गण्डपाल्यां कपोलदेशे व्यालोलता बिम्बप्रतिबिम्बद्वैरूप्येण दोलायमानेन मकरा
कारयोर्मणिकुण्डलयोर्द्वन्द्वेन दीप्रं दीपनशीलम् ॥ ४ ॥
बाहुइन्द्रेन रत्नोज्जलवलयभृता शौणपाणिप्रवाले-
नोपात्तां वेणुनालीं प्रसृतनखमयूखागुलीसङ्गशाराम् ।
कृत्वा वक्रारविन्दे सुमधुर विकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥
बाहुद्वन्द्वेनेति । प्रसृतनखमयूखागुलीसङ्गशारां प्रसृतनखमयूखानाम् अङ्गु-
लीनां सङ्गेन शारां शबलवर्णाम् । सुमधुरो विकसन् प्रकाशमानो रागो गीतविशेषो
यस्मिन्निति क्रियाविशेषणम् । उद्भाव्यमानैः प्रकाश्यमानैः शब्दब्रह्मामृतैः
नादामृतैः ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठंदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-
लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥
उत्सर्पदिति । हारप्रतानं मौक्तिकमालाजालम् । विलोलल्लोलम्बामुरारी तथा
रत्नमालां च भावये ॥ ६ ॥
१. 'तमधुर' ग. पाठः,