This page has been fully proofread once and needs a second look.

ratnojjvala?
 
३७२
 
नारायणीये
 
हृद्यमिति । अनाथे अशरणे ॥ ३ ॥
 

 
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-

व्यालोलत्कर्णपाशाश्ञ्चितमकरमणीकुण्डलद्वन्द्वीप्रम्
वदीप्रम्
उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः-

प्रीतिप्रस्यन्दिमन्दस्मितैत[^१]शिशिरतरं वक्त्रमुद्भासतां मे ॥ ४ ॥
 

 
[स्कन्धः- १२
 

 
उत्तुङ्गेति । हरिमणिमुकुरवद् इन्द्रनीलमणिमयदर्पणवत् प्रोल्लसन्त्यां

गण्डपाल्यां कपोलदेशे व्यालोलता बिम्बप्रतिबिम्बद्वैरूप्येण दोलायमानेन मकरा
-
कारयोर्मणिकुण्डलयोर्द्वन्द्वेन दीप्रं दीपनशीलम् ॥ ४ ॥
 

 
बाहुइन्द्रेनद्वन्द्वे रत्नोज्जलवलयभृता शौशोणपाणिप्रवाले-

नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।

कृत्वा वक्त्रारविन्दे सुमधुर विकसद्रागमुद्भाव्यमानैः

शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥
 

 
बाहुद्वन्द्वेनेति । प्रसृतनखमयूखाङ्गुलीसङ्गशारां प्रसृतनखमयूखानाम् अङ्गु-

लीनां सङ्गेन शारां शबलवर्णाम् । सुमधुरो विकसन् प्रकाशमानो रागो गीतविशेषो

यस्मिन्निति क्रियाविशेषणम् । उद्भाव्यमानैः प्रकाश्यमानैः शब्दब्रह्मामृतैः

नादामृतैः ॥ ५ ॥
 

 
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठंदेशं

वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् ।

नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-

ल्
लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥
 

 
उत्सर्पदिति । हारप्रतानं मौक्तिकमालाजालम् । विलोलल्लोलम्बामुरारीरसि तथा

रत्नमालां च भावये ॥ ६ ॥
 

 
[^
]. 'तमधुर' ग. पाठः,