This page has not been fully proofread.

दशकम् - १००]
 
केशादिपादवर्णनम् ।
 
एवं भगवदवतारचरितस्मरण कीर्तनादिभिरुपबृंहितप्रेमलक्षणभक्तिपरिपाक-
वशेन हृदयाकाशमवतीर्ण स्फुटप्रतीयमानावयववेषविशेषादिकं भगवद्रूपं पुर इवा-
वलोकयन् यथानुभूतं स्तौति –
 
अग्रे पश्यामि तेजो निविडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्य कैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिता है-
रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैच ॥ १ ॥
 
अग्र इति । तेजः प्रभामण्डलम् । तदनु तद्दर्शनानन्दरं दिव्यः सात्त्विकः
प्रकाशोज्ज्वलः आ षोडशाब्दात् कैशोरः, तत्सम्बन्धी वेषो यस्मिन् । तारुण्यारम्भ-
रम्यं षोडशवर्षीयं किमपि रूपं च पश्यामि । आवीतं परिवारितम् । उपनिष-
सुन्दरीमण्डलैरित्यनेनेदमवगम्यते – परं ब्रह्म श्रीकृष्णः, गोप्यस्तत्प्रतिपादकोप-
निषदः, श्रीनारदादयस्तदुपदेष्टार, द्रष्टाधिकारी ॥ १ ॥
 
-
 
दिव्यकैशोरवेषमिति यदुक्तं, तदेवाह -
 
नीलाभं कुञ्चिताग्रं घनममलतरं संयंतं चारुभङ्ग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।
मन्दारस्र निवीतं तव पृथुकबरीभारमालोक येऽहं
स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालवालेन्दुवीथीम् ॥ २ ॥
 
नीलाभ मिति । घनं निबिडम् । उदयच्चन्द्रकैः प्रकाशमानाग्रदेशस्थचित्र-
वर्णैः । मन्दारखज़ा सुरकुसुमविरचिताम्लानमालया निर्वातं वेष्टितम् ॥ २ ॥
 
यथानुभृतं नेत्राम्बुजद्वन्द्वं स्तौति –
 
हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै -
रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ! ते ।
 
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
 
कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥
 
SPAN