This page has not been fully proofread.

नारायणीये
 
[स्कन्धः-१२
 
यत्त्विति । हे अनन्त ! त्रैलोक्यमय रूपं दधदपि ततो निर्गतो बहिः
शुद्धज्ञानात्मौ च वर्तसे त्वमिति यत्, सोऽपि तावत् तव खलु महिमा । किमन्यद् न
किञ्चिदपि। अपिच, ते स्तोको भागः पादकल्प एवाखिलभुवनतया ब्रह्माण्डरूपेण
दृश्यते । त्र्यंशकल्पं प्रायेण त्र्यंशव्यवहारयोग्यं भूयिष्ठम् अधिकतरं ते रूपं सान्द्र
मोदात्मकं परमानन्दरूपं ततो ब्रह्माण्डाद् उपरि बहिर्देशे भाति । तस्मै अपरि
च्छिन्नात्मने ॥९॥
 
३७०
 
एवं 'यस्मिन्'(द.९८. श्लो. १) इत्यारभ्य विंशत्या श्लोकैः सगुण निर्गुणभेदेन
भगवन्तं स्तुतिमिषेणानुसन्दधानः स्वस्य तत्रानधिकारमाशङ्कमानोऽभीष्टायां मूर्ती
चित्तमवतारयितुमारभते-
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं
 
व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं
 
मूर्ति ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ॥ १० ॥
 
अव्यक्तमिति । ते अव्यक्तं केनापि न व्यज्यत इत्यव्यक्तं ब्रह्मस्वरूपं दुर
धिगमतमम् अतिशयेन दुरधिगमं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, "क्लेशोऽधिकतर
स्तेषामव्यक्तासक्तचेतसाम्" (भ.गी. १२.५) इति भगवद्वचनात् । तत् शुद्धैकसत्त्वं
शुद्धसत्त्वात्मकं तु ते स्वरूपं व्यक्तं ज्ञातुं शक्यम् । अपिच एतदेव श्रीकृष्णादिरूपम्
अमृतरसाम्भोधिकल्लोलतुल्यं ब्रह्मानन्दामृतरसाम्भोधेः कल्लोलेन तुल्यं सुखसेव्यम् ।
यस्मादेवं तत् तस्मात् सर्वोत्कृष्टामभीष्टाम् इह भगवति ये गुणा भक्तवात्सल्यादयः
त एव रसाः आस्वादनीयत्वात् तेनैव चित्तं हरन्तीं मनोहरां ते मूर्तिमहं संश्रये
स्तोतुं ध्यातुं वा समारभे । हे पवनपुरपते ! श्रीकृष्ण ! मां रोगात् संसारलक्षणात्
पाहि ॥१०॥
 
"
 
इति भगवन्महिमानुवर्णनमेकोनशततमं दशकम् ।
 
१. 'त्मा व' ख, पाठः, २. 'वं तस्मा
 
"
 
ख. पाठः.