This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः-१२
 
यत्त्विति । हे अनन्त ! त्रैलोक्यमयं रूपं दधदपि ततो निर्गतो बहिः

शुद्धज्ञानात्मौमा[^१] च वर्तसे त्वमिति यत्, सोऽपि तावत् तव खलु महिमा । किमन्यद् न

किञ्चिदपि। अपिच, ते स्तोको भागः पादकल्प एवाखिलभुवनतया ब्रह्माण्डरूपेण

दृश्यते । त्र्यंशकल्पं प्रायेण त्र्यंशव्यवहारयोग्यं भूयिष्ठम् अधिकतरं ते रूपं सान्द्र
-
मोदात्मकं परमानन्दरूपं ततो ब्रह्माण्डाद् उपरि बहिर्देशे भाति । तस्मै अपरि
-
च्छिन्नात्मने ॥९॥
 
३७०
 

 
एवं 'यस्मिन्'(द.९८. श्लो. १) इत्यारभ्य विंशत्या श्लोकैः सगुण निर्गुणभेदेन

भगवन्तं स्तुतिमिषेणानुसन्दधानः स्वस्य तत्रानधिकारमाशङ्कमानोऽभीष्टायां मूर्ती
तौ
चित्तमवतारयितुमारभते-
-
 
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं
 

व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।

सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं
 

मूर्तितिं ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ॥ १० ॥
 

 
अव्यक्तमिति । ते अव्यक्तं केनापि न व्यज्यत इत्यव्यक्तं ब्रह्मस्वरूपं दुर
-
धिगमतमम् अतिशयेन दुरधिगमं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, "क्लेशोऽधिकतर
-
स्तेषामव्यक्तासक्तचेतसाम्" (भ.गी. १२.५) इति भगवद्वचनात् । तत् शुद्धैकसत्त्वं

शुद्धसत्त्वात्मकं तु ते स्वरूपं व्यक्तं ज्ञातुं शक्यम् । अपिच एतदेव श्रीकृष्णादिरूपम्

अमृतरसाम्भोधिकल्लोलतुल्यं ब्रह्मानन्दामृतरसाम्भोधेः कल्लोलेन तुल्यं सुखसेव्यम् ।

यस्मादेवं[^२] तत् तस्मात् सर्वोत्कृष्टामभीष्टाम् इह भगवति ये गुणा भक्तवात्सल्यादयः

त एव रसाः आस्वादनीयत्वात्, तेनैव चित्तं हरन्तीं मनोहरां ते मूर्तिमहं संश्रये

स्तोतुं ध्यातुं वा समारभे । हे पवनपुरपते ! श्रीकृष्ण ! मां रोगात् संसारलक्षणात्

पाहि ॥१०॥
 
"
 

 
इति भगवन्महिमानुवर्णनमेकोनशततमं दशकम् ।
 

 
[^
]. 'त्मा व' ख,. पाठः,
[^
]. 'वं तस्मा
 
"
 
' ख. पाठः.