This page has not been fully proofread.

दशकम् - ९९]
 
भगवन्महिमानुवर्णनम् ।
 
हे लोका इति । हे लोकाः ! जनाः ! यो विष्णुः एतत् परिदृश्यमानं भुवनम-
जनयत्, तं विष्णुं यूयं किं न जानीथ । किञ्च, युष्माकमन्तरस्थं शरीरान्तर्भूतमपि
तदपरं तस्मादन्यत् संसारधर्मयुक्तं विष्णुरूपं विद्यते । अहो तदपि न जानीथ ।
किमिति न जानीमः, तत्राह - नीहारेति । आवरणशक्त्या हिमतुल्यया मायया परि-
वृतं व्याप्तं मनो येषां तथाभूताः सन्तः नामरूपैर्मोहिता मिथ्याभूतेषु शरीरादिप्व
हंममेत्यभिमन्यमानाः प्राणानामिन्द्रियाणां प्रीतिरेवैका प्रधानभूता तथा तृप्ताः अत
एव स्वर्गादिसुखेच्छया मखपराः काम्यकर्मपराः चरथ । हन्त अहो कष्टं
मुकुन्दे मोक्षप्रदे विष्णौ नेच्छा ॥ ७ ॥
 
अथामूर्ती विश्वमूर्तेर्मूर्तिमनुसन्धत्ते
 
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्ण विश्वं
तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि ।
भूतं भव्यं च सर्व परपुरुष! भवान् किञ्च देहेन्द्रियादि-
प्वाविष्टो युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ८ ॥
 
मूर्ध्नामिति । त्वं विराडभिमानी मूर्ध्नामक्ष्णां पदानां च सहस्राणि वहसि ।
ब्रह्माण्डानामनेकत्वात् तत्स्थसत्यलोकादिरूपाणां मूर्धादीनामनेकत्वम् । ततो विश्वं
ब्रह्माण्ड सम्पूर्य व्याप्य तद् ब्रह्माण्डं प्रोत्क्रम्ये अतिक्रम्य तिष्ठन्नपि परिमितविवरे
अतिसंकुचिते चित्तान्तरे हृदयाकाशे भासि । हे परमपुरुष ! भूतं भव्यं सर्वे भवांश्चैव ।
किश्च, देहेन्द्रियादिष्वाविष्टो यस्त्वं विषयरसान् भुङ्क्ते, स त्वमेव तस्मादुद्गतत्वाद-
मृतसुखस्य परमानन्दस्य रसं चाप्यनुभुङ्गे ॥ ८ ॥
 
यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतांनन्तशुद्ध-
ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावन् किमन्यत् ।
स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ९ ॥
 
१. 'हंमत्यैवाभि' क. पाठ. २. 'भ्य ति' क. पाठः ३. 'तोऽनन्त ! झु' व्याख्यानु-
सारी पाठ: ४. 'वत्' व्याख्यानुसारी पाठः,