This page has been fully proofread once and needs a second look.

दशकम् - ९९]
 
भगवन्महिमानुवर्णनम् ।
 
हे लोका इति । हे लोकाः ! जनाः ! यो विष्णुः एतत् परिदृश्यमानं भुवनम-

जनयत्, तं विष्णुं यूयं किं न जानीथ । किञ्च, युष्माकमन्तरस्थं शरीरान्तर्भूतमपि

तदपरं तस्मादन्यत् संसारधर्मयुक्तं विष्णुरूपं विद्यते । अहो तदपि न जानीथ ।

किमिति न जानीमः, तत्राह - -नीहारेति । आवरणशक्त्या हिमतुल्यया मायया परि-

वृतं व्याप्तं मनो येषां तथाभूताः सन्तः नामरूपैर्मोहिता मिथ्याभूतेषु शरीरादिप्व
ष्व-
हं[^१]ममेत्यभिमन्यमानाः प्राणानामिन्द्रियाणां प्रीतिरेवैका प्रधानभूता तथा तृप्ताः अत

एव स्वर्गादिसुखेच्छया मखपराः काम्यकर्मपराः चरथ । हन्त अहो कष्टं

मुकुन्दे मोक्षप्रदे विष्णौ नेच्छा ॥ ७ ॥
 

 
अथामूर्ती<flag>र्तां</flag> विश्वमूर्तेर्मूर्तिमनुसन्धत्ते
 
--
 
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर् विश्वं

तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि ।

भूतं भव्यं च सर्वं परपुरुष! भवान् किञ्च देहेन्द्रियादि-
प्

ष्
वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ८ ॥
 

 
मूर्ध्नामिति । त्वं विराडभिमानी मूर्ध्नामक्ष्णां पदानां च सहस्राणि वहसि ।

ब्रह्माण्डानामनेकत्वात् तत्स्थसत्यलोकादिरूपाणां मूर्धादीनामनेकत्वम् । ततो विश्वं

ब्रह्माण्ड सम्पूर्य व्याप्य तद् ब्रह्माण्डं प्रोत्क्रम्येय[^२] अतिक्रम्य तिष्ठन्नपि परिमितविवरे

अतिसंकुचिते चित्तान्तरे हृदयाकाशे भासि । हे परमपुरुष ! भूतं भव्यं सर्वेवं भवांश्चैव ।

किश्च, देहेन्द्रियादिष्वाविष्टो यस्त्वं विषयरसान् भुङ्क्तेषे, स त्वमेव तस्मादुद्गतत्वाद-

मृतसुखस्य परमानन्दस्य रसं चाप्यनुभुङ्गेक्षे ॥ ८ ॥
 

 
यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतांता[^३]नन्तशुद्ध-

ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावा[^४]न् किमन्यत् ।

स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं

भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ९ ॥
 

 
[^
]. 'हंमत्यैवाभि' क. पाठः
[^२]
. २. 'भ्म्य ति' क. पाठः
[^
]. 'तोऽनन्त ! झु' व्याख्यानु-
सारी पाठ: ४. 'वत्
शु' व्याख्यानुसारी पाठः,
 

[^४]. 'वत्' व्याख्यानुसारी पाठः