2023-02-16 08:52:52 by ambuda-bot
This page has not been fully proofread.
नारायणीये
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो ! ।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
प्यूर्ध्व विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥
नो जात इति । हे देव! जातो जायमानश्च यः पुरुषः, स कोऽपि
त्वन्महिम्नोऽवसानं नाधिगतः न प्राप्तः । अतोऽहं श्रेयांसि विद्वान् इदेमव श्रेय
इति निश्चित्य प्रतिमुहः अनिशं ते नाम शंसामि सङ्कीर्तयामि । हे विष्णो
तमपरिच्छिन्नमहिमानं त्वां नानाविधस्तुतिवचनैः संस्तौमि । निर्गुणे मनोनव-
गाहात् सगुणं त्वां स्तौमीत्यर्थः । अस्य लोकत्रयस्य ब्रह्माण्डस्योर्ध्वे विभ्राजमाने
तत्र बेकुण्ठलोके विरचिता वसतिर्वासो यस्य ॥ ५ ॥
अथ श्रीनारायणरूपं स्तौति -
[स्कन्धः- १२
आपः सृष्ट्यादिजन्याः प्रथममयि विभो ! गर्भदेशे दधुस्त्वां
यत्र त्वय्येव जीवा जलशयन ! हरे ! सङ्गता ऐक्यमापन् ।
तस्याजस्य प्रभो ! ते विनिहितमभवत् पद्ममेकं हि नाभौ
दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ ६॥
आप इति । सृष्ट्यादिजन्याः 'अप एव ससर्जादौ ' (मनु. १. ९)
इति वचनाद् आपः प्रथममादौ त्वां गर्भदेशे दधुः । यत्र अपां मध्येऽवस्थिते
त्वय्येव जीवाः सङ्गताः प्राप्ताः ऐक्यमापन् अनुशयिता अभवन् । कल्पान्ते सर्व
जीवा ब्रह्मणा सह जलशायिनि श्रीनारायणे सङ्गता अनुशेरते । तस्य जलशयनस्य
अजस्य विष्णोस्ते नाभौ विनिहितमधिष्टित मे कं पद्ममभवत् । यत् पद्मं लोकरूपमाहुः ।
तदेवाह — दिशः पत्राणि दलानि यस्य, कनकधरणिभृद् महामेरुः कर्णिका यस्य
तत् । श्रीविष्णुरेव कमलजः सन् नाभिकमलेन भुवनमजनयदित्यर्थः ॥ ६ ॥
उक्तरूपं विष्णुमजानतः शोचन्नाह -
-
हे लोका विष्णुरेतद् भुवनमजनयत् तन्न जानीथ यूयं
युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
प्राणत्रीत्यैकप्ताश्वरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ ७॥