This page has been fully proofread once and needs a second look.

नारायणीये
 
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं

देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो ! ।

तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-

प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥

 
नो जात इति । हे देव! जातो जायमानश्च यः पुरुषः, स कोऽपि

त्वन्महिम्नोऽवसानं नाधिगतः न प्राप्तः । अतोऽहं श्रेयांसि विद्वान् इदेमव श्रेय

इति निश्चित्य प्रतिमुहः अनिशं ते नाम शंसामि सङ्कीर्तयामि । हे विष्णो
!
तमपरिच्छिन्नमहिमानं त्वां नानाविधस्तुतिवचनैः संस्तौमि । निर्गुणे मनोनव-

गाहात् सगुणं त्वां स्तौमीत्यर्थः । अस्य लोकत्रयस्य ब्रह्माण्डस्योर्ध्वेवं विभ्राजमाने
तत्र बे

तत्र <fix>वै</fix>
कुण्ठलोके विरचिता वसतिर्वासो यस्य ॥ ५ ॥
 

 
अथ श्रीनारायणरूपं स्तौति -
 
[स्कन्धः
- १२
 

 
आपः सृष्ट्यादिजन्याः प्रथममयि विभो ! गर्भदेशे दधुस्त्वां

यत्र त्वय्येव जीवा जलशयन ! हरे ! सङ्गता ऐक्यमापन् ।

तस्याजस्य प्रभो ! ते विनिहितमभवत् पद्ममेकं हि नाभौ
 

दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ ६॥

 
आप इति । सृष्ट्यादिजन्याः 'अप एव ससर्जादौ ' (मनु. १. ९)

इति वचनाद् आपः प्रथममादौ त्वां गर्भदेशे दधुः । यत्र अपां मध्येऽवस्थिते

त्वय्येव जीवाः सङ्गताः प्राप्ताः ऐक्यमापन् अनुशयिता अभवन् । कल्पान्ते सर्व
-
जीवा ब्रह्मणा सह जलशायिनि श्रीनारायणे सङ्गता अनुशेरते । तस्य जलशयनस्य

अजस्य विष्णोस्ते नाभौ विनिहितमधिष्टित मे कं पद्ममभवत् । यत् पद्मं लोकरूपमाहुः ।

तदेवाह--दिशः पत्राणि दलानि यस्य, कनकधरणिभृद् महामेरुः कर्णिका यस्य

तत् । श्रीविष्णुरेव कमलजः सन् नाभिकमलेन भुवनमजनयदित्यर्थः ॥ ६ ॥

 
उक्तरूपं विष्णुमजानतः शोचन्नाह -
 
-
 

 
हे लोका विष्णुरेतद् भुवनमजनयत् तन्न जानीथ यूयं

युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।

नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः

प्राणत्प्रीत्यैकतृप्ताश्वरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ ७॥