2023-02-16 08:52:52 by ambuda-bot
This page has not been fully proofread.
दशकम् - ९९]
भगवन्महिमानुवर्णनम् ।
जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं
हे विष्णो! कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥
३६७
हे स्तोतार इति । इह ये कवोन्द्राः काव्यकुशलाः अत एव स्तोतारो राजा-
दिवर्णनपराः, ते खलु यूयं यथा चेतयध्वे अवगच्छथ, तथैव जननैरवतारैः उपात्ता-
भिरङ्गीकृताभिः लीलाभिः विष्णुं प्रणुवत स्तुतिं कुरुत । व्यक्तं प्रमाणसिद्धं
वेदस्य सारं प्रधानप्रतिपाद्यम् । हे जानन्तः! परमार्थज्ञाः ! अस्य विष्णोर्नामान्यखि -
लसुखकराणि मोक्षप्रदानीत्यतः सङ्कीर्तयध्वम् । हे विष्णो ! महतस्तव कीर्तनाद्यै:
खलं तत्त्वबोधं तत्त्वज्ञानं भजेयम् ॥ ३ ॥
किञ्च,
विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद्
यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी ।
वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं
विमेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ ४ ॥
विष्णोरिति । यूयं विष्णोः कर्माणि चरितानि मनसि सदा संपश्यत चिन्तयत ।
स विष्णुः यैः दुष्टनिग्रहविद्या स्थापनलोकसंग्रहणरूपैः कर्मभिः धर्मान् अभ्युदयनिः-
श्रेयसार्थान् अबघ्नात् तत्तदधिकारिभिः संयोजयामास, तानि कर्माणि संपश्यतेत्यर्थः।
एष विष्णुरिन्द्रस्य त्रैलोक्यरक्षायामात्मनाधिकृतस्य भृत्य इव, इन्द्रकर्तृकस्य जग-
द्रक्षणस्य तदशक्तेः स्वयं करणात् । अत एव महतोपकारेणास्य प्रियसख इव
च भगवान् यानि कर्माणि व्यातनोत् चकार । क्षेमकारी एवं जगद्रक्षणशील
इत्यर्थः। किञ्च, योगसिद्धाः समाधिनिर्जितसमग्रैश्वर्यादिगुणा मुनयो यस्य परपदं
मायासम्बन्धरहितं प्राप्तिस्थानमनिशं वीक्षन्ते पश्यन्ति । सम्यक् प्रकाशं यस्मात्
सर्वस्येति परपदं विशेष्यते । यत् परपदं विप्रेन्द्रा जागरूकास्तात्पर्यवन्तः कृत-
बहुनुतयः सगुणनिर्गुणभेदेन स्तुतिं कुर्वन्तो निर्भासयन्ते प्रकाशयन्ति ॥ ४ ॥
१. 'णि म' ख. पाठ: