This page has not been fully proofread.

३६६
 
नारायणीये
 
[स्कन्धः - १२
 
योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां
तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ १ ॥
 
विष्णोरिति । वीर्याणि महिम्नः को वा कथयतु गणयेद्, न कोऽपि ।
कश्च धरणेः रेणून् मिमीते । तदपि न कोऽपि । यस्य विष्णोः अङ्घ्रित्रयेण त्रिभिः
पदन्यासैः त्रिजगत् त्रैलोक्यम् अभिमितं परिच्छिन्नम् । अतो बलेरादाय स्वभुज -
गुप्ततया पूर्णसम्पद् मोदते सन्तुष्टसकलजनं च वर्तते । किञ्च, योऽसौ विष्णुः
विश्वानि सर्वलोकं धत्ते योगैश्वर्येण धारयति, तस्य प्रियं धाम वैकुण्ठम् अभिया-
याम् अहं प्राप्नुयां, यत्र तद्भक्ता माद्यन्ति । अमृतरसो मोक्षसुखं, तद्रूपस्य मर-
न्दस्य मधुनो यत्र वैकुण्ठे प्रवाहः सर्वतो निष्यन्दः ॥ १ ॥
 

 
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते-
र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ ।
कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत् सोऽयमेव
 
प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं तत् ॥ २ ॥
आद्यायेति । आदौ भवाय अत एव अशेषकर्त्रे सर्वकारणाय प्रतिनिर्मि-
षनवीनाय उपासकानां नित्यनूतनाय विभूतेः श्रियः भर्त्रे । प्रेमलक्षणभक्तियुक्त आ
त्मा मनो यस्य सः । यस्तथाभूतः उक्तरूपाय विष्णवे यज्ञार्चनादौ हविरादीनि
प्रदिशति, यो वा महतो विष्णोः महत् पूजनीयं कृष्णाद्यं जन्म अवतारं वर्णयेत्,
सोऽयं भक्त एवेह यथेष्टसुखानुभवेन प्रीतः यशोभिः पूर्णः अन्ते शरीरपाते त्वरि-
तं जन्मान्तरविलम्बमन्तरेण तत् पदं बैकुण्ठलोकम् अभिसरेत् प्राप्नुयाद्, नान्यः॥
 
यत एवम् अतस्तमेव स्तुवीध्वमित्याह -
 
-
 
हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः ।
 
'ते' क. ग. पाठ: •