This page has not been fully proofread.

३६५
 
दशकम् - ९९]
 
भगवन्महिमानुवर्णनम् ।
 
कर्तृत्वभोक्तृत्वादिरहितम्। निर्द्वन्द्वम् अद्वितीयम् । निर्विकारं परिणामादिविक्रियार-
हितम् । निखिलानां ये गुणगणाः क्षमासत्यदयैश्वर्यादयः, तेषां व्यञ्जनम् उत्पत्तिः,
तदाधारभूतम् । यदुपासने हि महागुणानामुत्पत्तिः । निर्मूलं निष्कारणम् । निर्मलं
रागादिदोषहीनं, चित्प्रकाशत्वाद् निरस्ताज्ञानम् । निरवधिमहिमोल्लासि कालदे-
शापरिच्छिन्नवैभवयुक्तम् । निस्सङ्गानां मुनीनामन्तः समाधौ निर्लीनं प्रतिष्ठितम् ।
निरुपमः परमानन्दः सान्द्रः प्रकाशः सान्द्रावबोधश्च यस्मिन् ॥ १० ॥
 
अथोक्तरूपं परं ब्रह्म प्राप्तानां न पुनः संसार इत्यभिप्रायेण कालचक्रपरिभ्रम-
भयनिवृत्तिं प्रार्थयते—
 
दुर्वारं द्वादशारं त्रिशतपरिमिलत्पष्टिपर्वाभिवीतं
संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
विष्णो ! कारुण्यसिन्धो ! पवनपुरपते ! पाहि सर्वामयौघात् ॥ ११ ॥
 
दुर्वारमिति । हे विष्णो! ते कालचक्रं संवत्सरात्मकं चक्रं न तु मां
व्यथयतु संसारदुःखं मा कार्षीत् । कीदृशं, दुर्वारं केनाप्यनिवारणीयम् । संव
त्सरस्य द्वादश मासाः, तदात्मकद्वादशशिखरयुक्तम् । त्रिशतपरिमिलत्षष्टया
षष्ट्युत्तरशतत्रयेण दिनैः पर्वभिर्धारासन्धिभिः अभिवीतम् अभिव्याप्तम् । संभ्राम्यद्
बंभ्रम्यमाणम् । क्रूरवेगं क्षणमनु प्रतिक्षणं जगदाच्छिद्य आदायादर्शनं नेतुं
 
सन्धावमानम् ॥ ११ ॥
 
इति सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम्
अष्टनवतितमं दशकं सैकम् ।
 
अथ नवभिः श्लोकैर्भगवन्महिमा वर्ण्यते-
विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून् मिमीते
यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।