2023-02-16 08:52:00 by ambuda-bot
This page has not been fully proofread.
भक्तस्वरूपवर्णनम् ।
२३
ननु किमर्थे भक्तान् स्तौषि, त्वमपि नामानि पठन्, गुणकथाश्च कथयन्,
मद्रूपं च स्मरन् तेषामन्यतमो भवेत्याशङ्कायामहं तावत् तान् भक्ताननुकर्तुमस-
मर्थ इत्याह-
दशकम् - ३]
-
गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
ऽप्यनासक्तं चित्तं भवति वत विष्णो ! कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ २ ॥
गदेति । बाह्यैर्वातादिभिरान्तरै रागादिभिश्च गदैर्व्याधिभिः क्लिष्टं सञ्जातक्लेशं
मदीयं चित्तं तव चरणसेवारसभरे भवत्पादाम्बुजोपासनरूपे सुखातिशयेऽप्यनासक्तं
समाधातुमशक्यं भवति, कष्टं बत खिन्नोऽस्मि । हे विष्णो ! मय्यनन्यशरणे दयां
कुरु । अहं तु भवत्पादाम्भोजस्मरणे रसिकः यद्यहमरोगोऽभविष्यं तर्ह्यस्मरिष्यमिति
सोत्कण्ठः सन् नाम्नां निवहान् समूहान् गायंगायं पुनःपुनः सङ्कीर्तयन् कुहचन
कुत्रापि विजने प्रदेशे विवत्स्यामि विशिष्टं वासं करिष्यामि ॥ २ ॥
कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौ घमशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विद्यते ॥ ३॥
कृपेति । अयि विष्णो ! ते कृपा जाता चेत्, तनुभृतां स्त्रीशूद्रादीनां गज-
मृगादिशरीरभाजामपि किमिव हि न लभ्यं, तिष्ठन्त्वितरे पुरुषार्थाः, त्वदैक्यं
मोक्षोऽपि तेषां सुलभ एव । एवं स्थिते मदीयाः क्लेशा विविधा आधयो व्याधयश्च
तेषामोघस्य समूहस्य प्रशमनदशा समूलोन्मूलनरूपावस्था कियती अतिलघीयसी
नाम, यथा ज्वलनज्वालावलीढतूलराशेः प्रशमनदशा, तद्वदिति भावः । नन्वेता-
दृक्कृपापात्रीभूता दुर्लभा इति चेद्, नेत्याह - न के क इति । के के जना अनिशं
सर्वदा शोकाभिरहिताः निवृत्तशरीराद्यहंममाभिमानतया तन्मूलाधिव्याधिक्लेशविरहि-
ताः भवद्भक्ताः भवतीश्वरे लब्धप्रेमतया नामानि कीर्तयन्तश्चरितानि गायन्तश्च मुक्ता
जीवन्मुक्ता भूत्वास्मिन् लोकेऽसक्ताः परानुग्रहैकपराः सुखगतिम् अभीष्टसञ्चारं न
१. 'पिप' क. पाठः २. 'ण' ख. पाठः ३. 'मि वा' क. पाठ: